सर्वभूतहितं कुर्यान्नाहितं कस्याचिद्द्विजः । मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम् ॥ ३,८.
ग्राव्णिरत्ने च पारक्ये समबुद्धिर्भवेद्द्विजः । ऋतावभिगमः पत्न्यां शस्तते चास्य पार्थिव ॥ ३,८.
दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियोपि वा । यजेच्च विविधैर्यज्ञैरधीयीत च पार्थिवः ॥ ३,८.
शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका । तत्रापि प्रथमः कल्पः पृथिवीपरिपारनम् ॥ ३,८.
धरित्रीपालनेनैव कृतकृत्या नराधिपाः । भवन्ति तृपतेरंशा यतो यज्ञादिकर्मणाम् ॥ ३,८.
दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् । प्राप्नोत्यभिमतांल्लोकान्वर्णसंस्थां करोति यः ॥ ३,८.
पाशुपाल्यं च वाणिज्यं कृषिं च मनुजेश्वर । वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ ३,८.
तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते । नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥ ३,८.
द्विजातिसंश्रितं कर्म तादर्थ्यं तेन पोषणम् । क्रयविक्रयजैर्वापि धनैः कारूद्भवेन वा ॥ ३,८.
शुद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया । अमन्त्रयज्ञो ह्यस्तेयं तत्संगो विप्ररक्षणम् ॥ ३,८.
दानं च दद्याच्छूद्रोपि पाकयज्ञैर्यजेत च । पित्र्यादिकं च तत्सर्वं शुद्रः कुर्वीत तेन वै ॥ ३,८.
भृत्यादिभरणार्थाय सर्वेषां च परिग्रहः । ऋतुकालेभिगमनं स्वदारेषु महीपते ॥ ३,८.
दया समस्तभूतेषु तितिक्षा नातिमानिता । सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥ ३,८.
मैत्र्यस्पृहा तथा तद्वदकार्पण्यंनरेश्वर । अनुसूया च सामान्यवर्णानां कथिता गुणाः ॥ ३,८.
आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः । गुणांस्तथावद्धर्मांश्च विप्रादीनामिमाञ्छृणु ॥ ३,८.
क्षात्त्रं कर्म द्विजस्योक्तं वैश्यं कर्म तथा पदि । राजन्यस्य च वैश्योक्तं शूद्रकर्म न चैतयोः ॥ ३,८.
सामर्थ्ये सति तत्त्याज्यमुभाभ्यामपि पार्थिव । तदेवापदि कर्तव्यं न कुर्यात्कर्मसंकरम् ॥ ३,८.
इत्येते कथिता राजन्वर्णधर्मा मया तव । धर्मानाश्रमिणां सम्यग्ब्रुवतो मे निशामय ॥ ३,८.
और्व उवाच । बालः कृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः
शौचा चारव्रतं तत्र कार्य्यं शुश्रूषणं गुरोः । व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना
उभे संध्ये रविं भूप तथैवाग्निं समाहितः । उपतिष्ठेत्तदा कुर्य्याद्गुरोरप्यभिवादनम्
स्थिते तिष्ठेद्व्रजेद्याते नीचैरासीत चासति । शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं न संचरेत्
तेनैवोक्तं पठेद्वेदं नान्यचित्तः पुरस्स्थितः । अनुज्ञातश्च भिक्षान्नमश्नीयाद्गुरुणा ततः
अवगाहेदपः पूर्वमाचार्य्येणावगाहितः । समिज्जलादिकं चास्य काल्यं काल्यमुपानयेत्
गृहीतग्राह्यवेदश्च ततोनुज्ञामवाप्य च । गार्हस्थ्यमाविश्त्प्रोआ!ज्ञो निष्पन्नगुरुनिष्कृतिः
विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा । गृहस्थकार्य्यमखिलं कुर्य्याद्भूपाल शक्तितः
निवापेन पितॄनर्चन्यज्ञैर्देवांस्तथातिथीन् । अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम्
भूतानि बलिभिश्चैव वात्सल्येनाखिलं जगत् । प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान्
बिक्षाभुजश्च ये केचित्परिव्राड्ब्रह्मचारिणः । तेप्यत्रैव प्रतिष्ठंते गार्हस्थ्यं तेन वै परम्
वेदाहरणकार्य्याय तीर्थस्नानाय च प्रभो । अटंति वसुधां विप्राः पृथिवीदर्शनाय च