सकलमिदमहञ्च वासुदेवः परमपुनाम् परमेश्वरः स एकः । इति मतिरचला भवत्यनन्ते ह्टदयगते व्रज तान् विहाय दूरात्
कमलनयन वासुदेव विष्णो धरणिधराच्युत शह्घचक्रपोणो! भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान्
वसति मनसि यस्य सोऽव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते । तव गतिरथवा ममास्ति चक्र प्रतिहतवीर्य्यबलस्य सोऽन्यलोक्यः
इतं निं जभटशासनाय देवो रवितनयः स किलाह धर्मराजः । मम कथितामिदञ्च तेन तुभ्यं कुरुवर! सम्यगिदं मयापि चोक्तम्
नकुलैतन्ममाख्यातं पूर्वं तेन द्रिजन्मना । कलिङ्गदेशादभ्येत्य प्रीयता सुमहात्मना
मयाप्येतदू यथान्याय सम्यग् वत्स! तवोदितम् । यथा विष्णुमृते नान्यत् त्राणं संसारसागरे
किङ्गरा पाशदण्डाश्व न यमो न च याताः । समर्थस्तस्य यस्यात्मा केशवालम्बनः सदा
मैत्रेय उवाच भगवन्भगवान्देवः संसारविजिगीषुभिः । समाख्याहि जगन्नाथो विष्णुराराध्यते यथा ॥ ३,८.
आराधिताच्च गोविन्दादाराधनपरैर्नरैः । यत्प्राप्यते फलं श्रोतुं तच्चेच्छामि महामुने ॥ ३,८.
श्रीपराशर उवाच यत्पृच्छति भवानेतत्सगरेण महात्मना । और्वः प्राह यथा पृष्टस्तन्मे निगदतः शृणु ॥ ३,८.
सगरः प्रणिपत्त्यैनमौर्वं पप्रच्छभार्गवम् । विष्णोराराधनोपायसंबन्धं मुनिसत्तम ॥ ३,८.
फलं चाराधिते विष्णो यत्पुंसामभिजायते । स चाह पृष्टो यत्नेन तस्मै तन्मेखिलं शृणु ॥ ३,८.
और्व उवाच भौमं मनोरथं स्वर्गं स्वर्गे रम्यं च यत्पदम् । प्राप्नोत्याराधिते विष्णौ निर्वाणमपि चोत्तमम् ॥ ३,८.
यद्यदिच्छति यावच्च फलमाराधितेऽच्युते । तत्तदाप्नोति राजेन्द्र भूरि स्वल्पमथापि वा ॥ ३,८.
यत्तु पृच्छसि भूपाल कथामाराध्यते हरिः । तदहं सकलं तुभ्यं कथयामि निबोध मे ॥ ३,८.
वर्णाश्रमाचारवता पुरुषेणपरः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ ३,८.
यजन्यज्ञान्यजत्येनं जपन्त्येनं जपन्नृप । निघ्नन्नन्यान्हिनस्त्येनं सर्वभूतो यतो हरिः ॥ ३,८.
तस्मात्सदाचारवता पुरुषेण जनार्दनः । आराध्यस्तु स्ववर्णोक्तधर्मानुष्ठानकारिमा ॥ ३,८.
ब्राह्मणः क्षत्रियो वैश्यः शुद्रश्च पृथिवीपते । स्वधर्मतत्परो विष्णुमाराधयति नान्यथा ॥ ३,८.
परापवादं पैशुन्यमनृतं च न भाषते । अन्योद्वेगकरं वापि तोष्यते तेनकेशवः ॥ ३,८.
परदारपरद्रव्यपरहिंसासु यो रतिम् । न करोति पुमान्भूप तोष्यते तेन केशवः ॥ ३,८.
न ताडयति नो हन्ति प्राणिनो न च हिंसकः । यो मनुष्यो मनुष्येन्द्र तोष्यते तेन केशवः ॥ ३,८.
देवाद्विजगुरूणां च शुश्रूषासु सदोद्यतः । तोष्यते तेन गोविन्दः पुरुषेणनरेश्वर ॥ ३,८.
यथात्मनि च पुत्रे च सर्वभूतेषु यत्तथा । हितकामो हरिस्तेन सर्वदा तोष्यते सुखम् ॥ ३,८.
यस्य रागादिदोषेण न दुष्टं नृप मानसम् । विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा ॥ ३,८.
वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता मुनिसत्तम । तेषु तिष्ठन्नरो विष्णुमादुष्टं नृप मानसम् ॥ ३,८.
सगर उवाच तदहं श्रोतुमिच्छमि वर्णधर्मानशेषतः । तथैवाश्रमधर्मंश्च द्विजवर्य ब्रवीहि तान् ॥ ३,८.
और्व उवाच ब्राह्मणक्षत्रियविशां शुद्राणां च यथाकमम् । त्वमेकाग्रमतिर्भूत्वा शृणु धर्मान्मयोदितान् ॥ ३,८.
दानं दद्याद्यजेद्देवान् यज्ञिः स्वाध्यायतत्परः । नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम् ॥ ३,८.
वृत्त्यर्थं याजयेच्चान्यानन्यानध्यापयेत्तथा । कुर्यात्प्रतिग्रहादानंशुक्लार्थान्न्यायतो द्विजः ॥ ३,८.