एकदा तु मया पृष्टं यदेतद् भवतोदितम् । प्राह कालिङ्गको विप्रः स्मृत्वा तस्य मुनेर्वचः
जातिस्मरेण कथितो रहस्यः परमो मम । यम-किङ्गरयोर्योऽभूत् संवादस्तं ब्रवीमि ते
स्वपुरुषमभिवीक्ष्य पाशह्सतं वदति यमः किल तस्य कर्णामूले । परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम्
अहममरघणर्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः । हरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः
कटकमुकुटकर्णिकादिबेदैः कनकमभेदमपीष्यते यथैकम । सुरपशुमनुजादिकल्पनाभि हरिरखिलाभिरुदीर्य्यते तथैकः
क्षितिजलपरमाणावोऽनिलान्ते पुनरपि यान्ति यथैकतां धरिव्याः । सुरपशुमनुजादयस्तथान्ते गुणकलुषेण सनातनेन तेन
हरिममरगणर्चिताञघ्रिपह्मं प्रणमति यः परमार्थतो हि मर्त्त्यः । तमपगतसमस्तपापबन्धं व्रज परिह्टत्य यथाग्रिगाज्यसिक्तम्
इति यमवचनं निशम्य पाशी कथय मम विभो ! समस्तधातु यमपुरुषस्तमुवाच धर्मराजम् । र्भवति हरेः खलु यादृशोऽस्य भक्तः
न चलति निजवर्णाधर्मतो यः सममतिरात्मसुह्टदविपक्षपक्षे न हरति न च हन्ति किञ्चिदुच्चैः सितमनसं तमवैहि विष्णभक्तम्
कलिकलूषमलेन यस्य नात्मा विमलमतेर्मलिनीकृतोऽस्तमोहे । मनसि कृतजनार्दनं मनुष्यं सततमवेहि हररतीव भक्तम्
कनकमपि रहस्यवेक्ष्य बुद्धया तृर्णामिव यः समवैति वै परस्वम । भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम्
स्फटिकगिरिशिलामलः क्व बिष्णुर्मनसि नृणां क्व च मत्सरादिदोषः । न हि तुहिनमयूखरश्मिपुञ्ज भवति हुताशनदीप्तिजः प्रतापः
विमलमतिविमत्सरः प्रशान्तः शुचिचरितोऽखिलसत्वमित्रबूतः । प्रियहितवचनोऽस्तमानमायो वसति सदा ह्टदि तस्य वासुदेवः
वसति ह्टदि सनातने च तस्मिन् भवति पुमान् जगतोऽस्य सौम्यरूपः । क्षितिरसमतिरम्यमात्मनोऽन्तः कथयति चारुतयैव शालपोतः
यमनियमविदूतकल्मषाणा मनुदिनमच्युतसक्तमानसानाम् । अपगतमद-मान-मत्सराणं त्यज भट!दूरतरेण मानवानाम
ह्टदि यदि भगवाननादिररास्ते हरिरसिशङ्खगदाधरोऽव्ययात्मा । तदघमघविघातकर्तृभिन्नं भवति कथं सति चान्धकारमर्के
हरति परधनं निहन्ति जन्तून् वदति तथानृतनिष्ठु राणि यश्व । असुभजनितदुर्मदस्य पु सः कलुषमतेह्ट दि तस्य नास्त्यनन्तः
न सहति परसम्पदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः । न यजति न ददाति यश्व सन्तं मनसि न तस् जनार्दनोऽधमस्य
परमसुद्टदि बान्धवे कलत्रे सुततनयापितृमातृभृत्यवर्गे। शठमतिरुपयाति योऽर्थतृष्णां तमधमचेष्टमवैहि नास्य भक्तम्
अशुभमतिरसत्प्रवृत्तिसक्तः सततमनार्य्यविशालसङ्गमत्तः । अनुदिनकृतपापबन्धयत्नः पुरुषपशुर्नहि वासुदेवभक्तः
सकलमिदमहञ्च वासुदेवः परमपुनाम् परमेश्वरः स एकः । इति मतिरचला भवत्यनन्ते ह्टदयगते व्रज तान् विहाय दूरात्
कमलनयन वासुदेव विष्णो धरणिधराच्युत शह्घचक्रपोणो! भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान्
वसति मनसि यस्य सोऽव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते । तव गतिरथवा ममास्ति चक्र प्रतिहतवीर्य्यबलस्य सोऽन्यलोक्यः
इतं निं जभटशासनाय देवो रवितनयः स किलाह धर्मराजः । मम कथितामिदञ्च तेन तुभ्यं कुरुवर! सम्यगिदं मयापि चोक्तम्
नकुलैतन्ममाख्यातं पूर्वं तेन द्रिजन्मना । कलिङ्गदेशादभ्येत्य प्रीयता सुमहात्मना
मयाप्येतदू यथान्याय सम्यग् वत्स! तवोदितम् । यथा विष्णुमृते नान्यत् त्राणं संसारसागरे
किङ्गरा पाशदण्डाश्व न यमो न च याताः । समर्थस्तस्य यस्यात्मा केशवालम्बनः सदा
मैत्रेय उवाच भगवन्भगवान्देवः संसारविजिगीषुभिः । समाख्याहि जगन्नाथो विष्णुराराध्यते यथा ॥ ३,८.
आराधिताच्च गोविन्दादाराधनपरैर्नरैः । यत्प्राप्यते फलं श्रोतुं तच्चेच्छामि महामुने ॥ ३,८.
श्रीपराशर उवाच यत्पृच्छति भवानेतत्सगरेण महात्मना । और्वः प्राह यथा पृष्टस्तन्मे निगदतः शृणु ॥ ३,८.