आख्यानेश्चाप्युपाख्यानैर्गाथाभिः कल्पसिद्धिभिः । पुराणसंहितां चक्र पुराणार्थविशारदः
प्रख्यातो व्यासशिष्योऽभूत् सूतो वै रोमहर्षणः । पुराणसंहितां तस्मै ददौ व्यासो महामुनिः
सुमतिश्चाग्रिवर्जाश्च मित्रायुः शांशपायनः । अकृतव्रणः सावर्णिः षट् शिष्यास्तस्य चाभवन्
काश्यपः संहिताकर्ता सावर्णिः शाशपायनः । रोमहर्षणिका चान्या तिसृणां मूलसंहिताः
चतुष्टयेनाप्येतेन संहितानामिदं मुने । आद्यं सर्वपुराणानां पुराणं ब्राह्ममुच्यते
अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते । ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा
अथान्यन्नारदीयञ्च मार्कण्डेयञ्च सप्तमम् । आग्नेयमष्टमञ्चैव भविष्यं नवमं तथा
दशमं ब्रह्मवैवर्तं लैङ्गमेकादशं स्मृतम् । वाराहं द्वादशञ्चैव स्कान्दञ्चात्र त्रयोदशम्
चतुर्दशं वामनञ्च कौर्मं पञ्चदशं स्मृतम् । मात्स्यञ्च गारुड़ञ्चैव ब्रह्माण्डञ्च ततः परम
तथा चोपपुराणानि मुनिभिः कथितानि च । महापुराणान्येतानि ह्मष्टादश महामुने
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । सर्वेष्वेतेषु कथ्यन्ते वंशामनुचरितञ्च यत्
यदेतत् तव मैत्रेय! पुराणां कथ्यते मया। एतदू वैष्णवसंज्ञ वै पाह्मस्य समनन्तरम्
सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु । कथ्यते भगवान् विष्णुरशेषेष्वेव सत्तम
अह्गानि चतुरो वेदा मीमांसा न्यायविस्तरः । पुराणां धर्मशास्त्रञ्च विद्या ह्म ताश्चतुर्दश
आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः । अर्थशास्त्र चतुर्थन्तु विद्या ह्मष्टादशैव ताः
ज्ञेया ब्रह्मर्षयः पूर्व तेभ्यो देवर्षयः पुनः । राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रयः
इति शाखाः प्रसंख्याताः शाखाभदास्तथैव च । कर्तारश्चैव शाखानां बेदहेतुस्तथोदितः
सर्वमन्वन्तरेष्वेव शाखाभेदाः समाः समृताः । प्राजापत्या श्रुतिनित्या तद्रिकल्पास्त्विमे द्रिज
एतत् तवोदितं सर्वं यत् पृष्टोऽहमिह त्वया । मैत्रेय! वेदसम्बद्ध किमन्यत् तथामि ते
यथावत् कथित सर्वं यत् पृष्टोऽसि मया द्रिज । श्रोतुम्च्छाम्यहं त्वेकं तदू भवान् प्रब्रवीतु मे
सप्त द्रीपानि पाताल-वीथ्यश्व सुमहामुने । सप्त लोका येऽन्तरस्था ब्रह्माण्डस्यास्य सर्वतः
स्थूलैः सूक्ष्मैस्तथा सूक्ष्मात् सूक्ष्मैः सूक्ष्मतरैस्तथा । स्थूलैः स्थूलतरैश्चैव सर्वप्राणिभिरावृतम्
अङ्गु लस्याष्टभागोऽपि न सोऽस्ति मुनिसत्तम । न सान्ति प्राणिनो यत्र कर्मबान्धनिबन्धनाः
सर्वे चैत वशं यान्ति यमस्य भगवन् । किल । आयुषोऽन्ते तथा यान्ति यातनास्तत्प्रचोदिताः
यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु । जन्तवः परिवर्तन्ते शास्त्राणामेष निर्णायः
सोऽहमिच्छामि तच्छ्रोतु यमस्य वशवर्त्तिनः । न भवन्ति नरा यन तत् कर्मं कथयामलम्
पराशर उवाच । अयमेव मुने ! प्रश्रो नकुलेन महात्मना । पृष्टः पितामहः प्राह भीष्मो यत् तच्छृणुष्व मे
भीष्म उवाच । पुरा समागतो वत्स ! सखा कालिङ्गको द्रिजः । समामु पृष्टो वै मया जातिस्मरो मुनिः
तेनाख्यातमिदञ्च दमित्थञ्चैतदू भविष्यति । तथा च तदभूद् वत्स! यथोक्तं तेन धीमता
स पृष्टश्व मया भूयः श्रदृधानवता द्रिजः । यदू यदाह न तदू दृमन्यथा हि मया क्वचित्