अतिथिं तत्र सम्प्राप्तं पूजयेत् स्वागतादिना । तथासनप्रदानेन पादप्रक्षालनेन च
श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च । गच्छतश्चानुयानेन प्रीतिमुत्पादयेद्गृही
अज्ञातकुलनामानमन्यदेशादुपागतम् । पूजयेदतिथिं सम्यङ्नैकग्रामनिवासिनम्
अकिञ्चनमसम्बन्धमज्ञातकुलशालिनम् । असम्पूज्यातिथिं भुक्त्वा भोक्तुकामं व्रजत्यधः
स्वाध्यायगोत्राचरणमपृष्ट्वा च तथा कुलम् । हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही
पित्रर्थं चापरं विप्रमेकमप्याशयेन्नृप । तद्देश्यं विदिताचारसम्भूतिं पाञ्चयज्ञिकम्
अन्नाग्रं च समुद्धृत्य हन्तकारोपकल्पितम् । निर्वापभूतं भूपाल श्रोत्रियायोपपादयेत्
दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम् । इच्छया च बुधो दद्याद्विभवे सत्यवारितम्
इत्येतेऽतिथयः प्रोक्ता प्रागुक्ता भिक्षवश्च ये । चतुरः पूजयित्वैतान्नृप पापात् प्रमुच्यते
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्त्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति
धाता प्रजापतिः शक्रो वह्निर्वसुगणोऽर्यमा । प्रविश्यातिथिमेते वै भुञ्जन्तेऽन्नं नरेश्वर
तस्मादतिथिपूजायां यतेत सततं नरः । स केवलमघं भुङ्क्ते यो भुङ्क्ते ह्यतिथिं विना
ततः सुवासिनीदुःखिगर्भिणीवृद्धबालकान् । भोजयेत् संस्कृतान्नेन प्रथमं चरमं गृही
अभुक्तवत्सु चैतेषु भुञ्जन् भुङ्क्ते स दुष्कृतम् । मृतश्च गत्वा नरकं श्लेष्मभुग्जायते नरः
अस्नाताशी मलं भुङ्क्ते ह्यजपी पूयशोणितम् । असंस्कृतान्नभुङ्मूत्रं बालादिप्रथमं शकृत्
अहोमी च कृमीन् भुङ्क्ते अदत्त्वा विषमश्नुते
तस्माच्छृणुष्व राजेन्द्र यथा भुञ्जीत वै गृही । भुञ्जतश्च यथा पुंसः पापबन्धो न जायते
इह चारोग्यविपुलं बलबुद्धिस्तथा नृप । भवत्यरिष्टशान्तिश्च वैरिपक्षाभिचारिणः
स्नातो यथावत् कृत्वा च देवर्षिपितृतर्पणम् । प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतो गृही
कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप । दत्त्वाऽतिथिभ्यो विप्रेभ्यो गुरुभ्यस्संश्रिताय च । पुण्यगन्धधरः शस्तमाल्यधारी नरेश्वर
नैकवस्त्रधरो नार्द्रपाणिपादो महीपते । विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः
प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः । अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः
न कुत्सिताहृतं नैव जुगुप्सापदसंस्कृतम् । दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस्तथा गृही
प्रशस्तशुद्धपात्रे तु भुञ्जीताकुपितो द्विजः
नासन्दिसंस्थिते पात्रे नादेशे च नरेश्वर । नाकाले नातिसङ्कीर्णे दत्त्वाग्रं च नरोऽग्नये
मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप । अन्यत्र फलमूलेभ्यः शुष्कशाखादिकात् तथा
तद्वद्धारीतकेभ्यश्च गुडभक्ष्येभ्य एव च । भुञ्जीतोद्धृतसाराणि न कदापि नरेश्वर
न शेषं पुरुषोऽश्नीयादन्यत्र जगतीपते । मध्वम्बुदधिसर्पिभ्यः सक्तुभ्यश्च विवेकवान्
अश्नीयात् तन्मयो भूत्वा पूर्वं तु मधुरं रसम् । लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस्ततः
प्राग्द्रवं पुरुषोऽश्नीयान्मध्ये कठिनभोजनः । अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति