तस्य वै सप्तरात्रात्तु ब्रह्महत्या भविष्यति । पूर्वमेवं मुनिगणैः समयोऽभूत् कृतो द्रिज
वैशम्पायन एकस्तु तं व्यतिक्रान्तवांस्तदा । स्वस्त्रीयं बालकं रोऽथ पदास्पृष्टमघातयत्
शिष्यानाह स भोः शिष्य! ब्रह्महत्यापहं ब्रतम् । चरध्व मत्कृते सर्वे न विचार्यमिदं तथा
अथाह याज्ञबल्क्यस्तु किमेभिर्भगवन् ! द्रिजैः । क्लेशितैरल्पतेजोभिश्वरिष्येऽहमिदं व्रतम्
ततः क्रु द्धो गुरुः प्राह याज्ञवल्क्यं महामतिः । मुच्यतां यत् त्वयाधात मत्तो विप्रावमानक
निस्तेजसो वदस्येनान् यस्त्वं ब्राह्मणपुङ्गवान् । तेन शिष्येण नार्थोऽस्ति ममाज्ञाभङ्गकारिणा
याज्ञवल्क्यस्ततः प्राह भत्तयैतत्ते मयोदितम् । ममाप्यलं त्वयाधीतं यन्मया तदिदं द्रिज
इत्युक्तो रुधिराक्तानि सरूपाणि यजू षि सः । छर्दयित्वा ददौ तस्मै ययौ स स्वेच्छया मुनिः
यजू ष्यथ विसृष्टानि याज्ञवल्क्येन वै द्रिज । जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः
ब्रह्महत्याव्रतं चीर्णं गुरुणा चोदितैस्तु यैः । चरकाध्वर्यवस्ते तु चरणान्मुनिसत्तम
याज्ञवल्क्योऽपि मैत्रेय! प्रामायामपरायणः । तुष्टाव प्रयतः सूर्यं यजूष्यबिलषंस्ततः
नमः सवित्रे द्राराय विमुक्तेः सिततेजसे । ऋगूयजुः सामभूताय त्रयीधामवते नमः
नमोऽग्रीषोमभूताय जगतः कारणात्मने । भास्कराय परं तेजः सौषुम्नमुरु बिभ्रते
कलाकाष्ठानिमेषादिकालज्ञानात्मने नमः । ध्येयाय विष्णुरूपाय परमाक्षररूपिणे
बिभर्त्ति यः सुरगणानाप्याय्येन्दु खरश्मिभिः । सुधामृतेन च पितॄ स्तस्मै तृप्तात्मने नमः
हिमाम्बुघर्मवृष्टीनां कर्ता हर्ता च यः प्रभुः । तस्मै त्रिकालरूपाय नमः सूर्य्याय वेधसे
यो हन्ति तिमिराण्येको जगतोऽस्य जगर्त्पातः । सत्त्वधामधरो देवो नमस्तस्मै विवस्वते
सत्कर्मयोग्यो न जनो नैवापः सौचकारणम् । यस्मिन्ननुदिते तस्मै नमो देवाय वेधसे
स्पृष्टो यदंशुबिर्लोकः क्रियायोग्योऽभिजायते । पवित्रताकारणाय तस्मै शुद्धात्मने नमः
नमः सवित्रे सूर्याय भास्कराय विवस्वते । आदित्यायादिबूताय देवादीनां नमो नमः
हिरण्मयं रथं यस्य केतवोऽमृतधायिनः । वहन्ति बुवनालोकिचक्षुषं तं नमाम्यहम्
इत्येवमादिभिस्तेन स्तूयमानः स्तवै रविः । वाजिरूपधरः प्राह व्रियतामिति वाच्छितम्
याज्ञवल्कयस्तदा प्राह प्रणिपत्य दिवाकरम् । यजूषि तानि मे देहि यानि सन्ति न मे गुरौ
एवमुक्तो ददौ तस्मै यजूषि भगवान् रविः । अयातयामसंज्ञानि यानि वेत्ति न तदगुरुः
यजूषि यैरधीतानि तानि विप्रैर्द्रिजोत्तम । वाजिनस्ते समाख्याताः सूर्याश्वः सोऽभवद यतः
शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् । काण्वाद्यास्तु महाभाग! याज्ञवल्क्या-प्रवर्तिताः
सामवेदतरोः शाशा व्यासशिष्यः स जैमिनिः । क्रमेण येन मैत्रेय! बिभेद श्वृणु तन्मम
सुमन्तुस्तस्य पुत्रोऽभूत् सुकर्मास्याप्यभूत् सुतः । अधीतवन्तावेकैकां संहितां तौ महामुनी
साहस्त्रं संहिताभेदं सुकर्मा तत्सुतस्ततः । चकार तञ्च तिच्छिष्यौ जगृहाते महामती
हिरण्यनाभः कौशल्यः पौष्पिञ्जिश्व द्रिजोत्तम । उदीच्यसामगाः शिष्यास्तेब्यः पञ्चदशा स्मृताः