तस्य शिष्यप्रशिष्येभ्यःसंहितां तामधीतवान
चकार संहिताः पञ्च शिष्येभ्यः प्रददौ च ताः । तस्य शिष्यास्तु ये पञ्च तेषां नामानि मे श्वृणा
मुदूगलो गोमुखश्चैव वात्स्यः शालीय एब च। शिशिरः पञ्चमश्चासीन्मत्रेय! सुमहामुनिः
संहितात्रितयं चक्र शाकपूर्णिरथतरम । निरुक्तमकरोत् तदूज्वतुर्थं मुनिसत्तम
क्रौञ्चो वैतालिकस्तदूदू बलाकश्व महामतिः । निरुक्तकृज्वतुर्थोऽभूदू वेदवेदाङ्गपारगः
इत्येताः प्रतिशाखाभ्योऽप्यनुशाखा द्रिजोत्तम ! बास्कलिश्चापरास्तिस्त्रः संहिताः कृतवान द्रिज
शिष्यः कालायनिर्गार्ग्यस्तृतीयश्च कथाजवः । इत्येत बहुधा प्रोक्ताः संहिता यैः प्रवर्तिताः
पराशर उवाच । यजुर्वेदतरोः शाखाः सप्तविंशन्महामतिः । वैशम्पायननामासौ व्यासशिष्यश्चकार वै
शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनुक्रमात् । याज्ञवल्क्यस्तु तत्राभूद् ब्रह्मरातसुतो द्रिजः
शिष्यः परधर्मज्ञो गुरुवृत्तिपरः सदा । ऋषिर्योऽद्य महामेरौः समाजे नागमिष्यति
तस्य वै सप्तरात्रात्तु ब्रह्महत्या भविष्यति । पूर्वमेवं मुनिगणैः समयोऽभूत् कृतो द्रिज
वैशम्पायन एकस्तु तं व्यतिक्रान्तवांस्तदा । स्वस्त्रीयं बालकं रोऽथ पदास्पृष्टमघातयत्
शिष्यानाह स भोः शिष्य! ब्रह्महत्यापहं ब्रतम् । चरध्व मत्कृते सर्वे न विचार्यमिदं तथा
अथाह याज्ञबल्क्यस्तु किमेभिर्भगवन् ! द्रिजैः । क्लेशितैरल्पतेजोभिश्वरिष्येऽहमिदं व्रतम्
ततः क्रु द्धो गुरुः प्राह याज्ञवल्क्यं महामतिः । मुच्यतां यत् त्वयाधात मत्तो विप्रावमानक
निस्तेजसो वदस्येनान् यस्त्वं ब्राह्मणपुङ्गवान् । तेन शिष्येण नार्थोऽस्ति ममाज्ञाभङ्गकारिणा
याज्ञवल्क्यस्ततः प्राह भत्तयैतत्ते मयोदितम् । ममाप्यलं त्वयाधीतं यन्मया तदिदं द्रिज
इत्युक्तो रुधिराक्तानि सरूपाणि यजू षि सः । छर्दयित्वा ददौ तस्मै ययौ स स्वेच्छया मुनिः
यजू ष्यथ विसृष्टानि याज्ञवल्क्येन वै द्रिज । जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः
ब्रह्महत्याव्रतं चीर्णं गुरुणा चोदितैस्तु यैः । चरकाध्वर्यवस्ते तु चरणान्मुनिसत्तम
याज्ञवल्क्योऽपि मैत्रेय! प्रामायामपरायणः । तुष्टाव प्रयतः सूर्यं यजूष्यबिलषंस्ततः
नमः सवित्रे द्राराय विमुक्तेः सिततेजसे । ऋगूयजुः सामभूताय त्रयीधामवते नमः
नमोऽग्रीषोमभूताय जगतः कारणात्मने । भास्कराय परं तेजः सौषुम्नमुरु बिभ्रते
कलाकाष्ठानिमेषादिकालज्ञानात्मने नमः । ध्येयाय विष्णुरूपाय परमाक्षररूपिणे
बिभर्त्ति यः सुरगणानाप्याय्येन्दु खरश्मिभिः । सुधामृतेन च पितॄ स्तस्मै तृप्तात्मने नमः
हिमाम्बुघर्मवृष्टीनां कर्ता हर्ता च यः प्रभुः । तस्मै त्रिकालरूपाय नमः सूर्य्याय वेधसे
यो हन्ति तिमिराण्येको जगतोऽस्य जगर्त्पातः । सत्त्वधामधरो देवो नमस्तस्मै विवस्वते
सत्कर्मयोग्यो न जनो नैवापः सौचकारणम् । यस्मिन्ननुदिते तस्मै नमो देवाय वेधसे
स्पृष्टो यदंशुबिर्लोकः क्रियायोग्योऽभिजायते । पवित्रताकारणाय तस्मै शुद्धात्मने नमः
नमः सवित्रे सूर्याय भास्कराय विवस्वते । आदित्यायादिबूताय देवादीनां नमो नमः