भविष्ये द्वापरे चापि द्रौ णिर्व्यासो भविष्यति । व्यतीते मम पुत्रेस्मिन् कृष्णद्वैपायने मुने
ध्रुवमेकाक्षरं ब्रह्म ओमित्येव व्यवस्थितम् । बृहत्वाद्बृंहणत्वाच्च तद्ब्रह्येत्यभिधीयते
प्रणवावस्थितं नित्यं भूर्भुवस्स्वरितीर्य्यते । ऋग्यजुस्सामाथर्वाणो यत्तस्मै ब्रह्मणे नमः
जगतः प्रलयोत्पत्त्योर्यत्तत्कारणसंज्ञितम् । महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः
अगाधापारमक्षय्यं जगत्संमोहनालयम् । स्वप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम्
संख्यज्ञानवतां निष्ठा गतिश्शमदमात्मनाम् । यत्तदव्यक्तममृतं प्रवृत्तिर्ब्रह्म शाश्वतम्
प्रधानमात्मयोनिश्च गुहासंस्थं च शब्द्यते । अविभागं तथा शुक्रमक्षयं बहुधात्मकम्
परमब्रह्मणे तस्मै नित्यमेव नमोनमः । यद्रू पं वासुदेवस्य परमात्मस्वरूपिणः
एतद्ब्रह्म त्रिधा भेदमभेदमपि स प्रभुः । सर्वभेदेष्वभेदोसौ भिद्यते भिन्नबुद्धिभिः
स ऋङ्मयस्साममयः सर्वात्मा स यजुर्मयः । ऋग्यजुस्सामसारात्मा स एवात्मा शरीरिणाम्
स भिद्यते वेदमयस्स्ववेदं करोति भेदैर्बहुभिस्सशाखम् । शाखाप्रणेता स समस्तशाखाज्ञानस्वरूपो भगवानसंगः
पराशर उवाच । आद्यो वेदश्चतुष्पादः शतसाहस्त्रसम्मितः । ततो दशगुणः कृत्स्नो यज्ञोऽयं सर्वसामधुक्
ततोऽत्र मत्सुतो व्यासो ह्मष्टाविंशतिमेऽन्तरे । वदमेकं चतुष्पादं चतुर्धा व्यभजत् प्रबुः
यथा तु तेन वै व्यस्ता वेदव्यासेन धीमता । वेदास्तथ समस्तैस्तेर्व्यस्ता व्यासैस्तथा मया
तदनेनैव वेदानां शाखाभेदान् द्रिजोत्तम । चतुर्युगेष्वारचितान् समस्तेष्वववधारय
कृष्णदू पायनं व्यासं विद्धि नारायणं प्रबुम् । कोऽन्यो हि भुवि मैत्रेय ! महाभारतकृदू भवेत्
तेन व्यस्ता यथा वेदा मत्पुत्रेण महात्मना । द्रापरे ह्मत्र मैत्रेय! तस्मिन् श्वृणु यथार्थतः
ब्रह्मणा चोदितो व्यासो वेदान् व्यस्तुं प्रचक्रमे । अथ शिष्यान् स जग्राह चतुरो वेदपारगान्
ऋगुवेदश्वावकं पैलं जग्राह स महामुनिः । वैशम्पायननामानं यजूर्वेदस्य चाग्रहीत्
जैमिनि सामवेदस्य तथैवाथर्ववेदवित् । सुमन्तुस्तस्य शिष्योऽबूदू वेदव्यासस्य धीमतः
रोमहर्षणनामानं महाबुद्धिं महामुनिः । सूतं जग्राह शिष्यं स इतिहास-पुराणयोः । सूतं जग्राह शिष्यं स इतिहास-पुराणयोः
एक आसीदू यजुर्वेदस्तं चतुर्धा व्यकल्पयत् । चातुर्होत्रमभूदू यस्मिस्तन यज्ञमथाकरोत्
आध्वर्यवं यजुभिंस्तु ऋगूभिर्होत्रं तथा मुनिः । औदूगात्रं सामभिश्चक्र ब्रह्मत्वं चाप्यथर्वभिः
ततः स ऋचमुद्ध त्य ऋग्वेदं तृतवान् मुनिः । यजूषि च यजुर्वेदं सामवेदञ्च सामभिः
राज्ञस्त्वथर्ववेदेन सर्वकर्माणि च प्रभुः । कारयामास मैत्रेय! ब्रह्मत्वञ्च यथास्थिति
सोऽयमेको महावेदस्तरुस्तेन पृथकूकृतः । चतुधा तु ततो जातं वेदपादपकाननम्
बिभेद प्रथमं विप्र! पैल ऋगूवेदपादपम् । इन्द्रप्रमितये प्रादाद बास्कलाय चसंहिते
चतुर्धा स बिभेदाथ बास्कलिद्रिज!संहिताम् । बौध्यादिब्यो ददौ तास्तु शिष्येभ्यः स महामुनिः
बौध्याग्रिमाठरौ तदूदू याज्ञवल्क्यपराशरौ । प्रतिशाखास्तु शाखायास्तसायास्त जगृहुमुने
इन्द्रप्रमतिरेकान्तु संहितां स्वसुतं ततः । माण्डूकयं महात्मानं मैत्रयाध्यापयत् तदा