ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः । सृष्टिं करोत्यव्ययात्मा कल्पेकल्पे रजोगुणः ॥ ३,२.
मनवो भूभुजःसेंद्रा देवाःसप्तर्षयस्तथा । सात्त्विकोंशः स्थितिकरो जगतो द्विजसत्तम ॥ ३,२.
चदुर्युगोप्यसौ विष्णुः स्थितिव्यापारलक्षमः । युगव्यवस्थां कुरुते तथा मैत्रेय तच्छृणु ॥ ३,२.
कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् । ददाति सर्वभूतात्मा सर्वभूतहिते रतः ॥ ३,२.
चक्रवर्तिस्वरूपेण त्रेतायामपि स प्रभूः । दुष्टानां निग्रह कुर्वन्परिपाति जगत्त्रयम् ॥ ३,२.
वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः । करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥ ३,२.
वेदांस्तु द्वापरे व्यस्य कलेरन्ते पुनर्हरिः । कल्किस्वरूपी दुर्वृत्तन्मार्गे स्थापयति प्रभुः ॥ ३,२.
एवमेतज्जगत्सर्वं शश्वत्पाति करोति च । हन्ति चान्तेष्वनन्तात्मा नास्त्यस्मव्द्यतिरेकि यत् ॥ ३,२.
भूतं भव्यं भविष्यं च सर्वभूतान्महात्मनः । तदत्रान्यत्र वा विप्र सद्भावः कथितस्तव ॥ ३,२.
मन्वन्तराण्यशेषाणि कथितानि मया तवा । मन्वन्तराधिपांश्चैव किमन्यत्कथयामि ते ॥ ३,२.
मैत्रेय उवाच। ज्ञातमेतन्मया त्वत्तो यथा सर्वमिदं जगत् । विष्णुर्विष्णौ विष्णुतश्च न परं विद्यते ततः
एतत्तु श्रोतुमिच्छामि व्यस्ता वेदा महात्मना । वेदव्यासस्वरूपेण यथा तेन युगेयुगे
यस्मिन्यस्मिन्युगे व्यासो यो य आसीन्महामुने । तंतमाचक्ष्व भगवञ्छाखाभेदांश्च मे वद
श्रीपराशर उवाच । वेदद्रु मस्य मैत्रेय शाखाभेदास्सहस्रशः । न शक्तो विस्तराद्वक्तुं संक्षेपेण शृणुष्व तम्
द्वापरेद्वापरे विष्णुर्व्यासरूपी महामुने । वेदमेकं सुबहुधा कुरुते जगतो हितः
वीर्यं तेजो बलं चाल्पं मनुष्याणामवेक्ष्य च । हिताय सर्वभूतानां वेदभेदान्करोति सः
ययासौ कुरुते तन्वा वेदमेकं पृथक्प्रभुः । वेदव्यासाभिधाना तु सा च मूर्तिर्मधुद्विषः
यस्मिन्मन्वंतरे व्यासा येये स्युस्तान्निबोध मे । यथा च भेदश्शाखानां व्यासेन क्रियते मुने
अष्टविंशतिकृत्वो वै वेदो व्यस्तो सहर्षिभिः । वैवस्वतेंतरे तस्मिन्द्वापरेषु पुनःपुनः
वेदव्यासा व्यतीता ये ह्यष्टाविंशति सत्तम । चतुर्धा यैः कृतो वेदो द्वापरेषु पुनःपुनः
द्वापरे प्रथमे व्यस्तस्स्वयं वेदः स्वयंभुवा । द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः
तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः । सविता पंचमे व्यासः षष्ठे मृत्युस्समृतः प्रभुः
सप्तमे च तथैवेंद्रो वसिष्ठश्चाष्टमे स्मृतः । सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः
एकादशो तु त्रिशिखो भरद्वाजस्ततः परः । त्रयोदशो चांतरिक्षो वर्णी चापि चतुर्दशो
त्रय्यारुणः पंचदशो षोडशो तु धनंजयः । क्रतुंजयः सप्तदशो तदूर्ध्वं च जयस्स्मृतः
ततो व्यासो भरद्वाजो भरद्वाजाच्च गौतमः । गौतमादुत्तरो व्यासो हर्य्यात्मा योभिधीयते
अथ हर्य्यात्मनॐते च स्मृतो वाजश्रवा मुनिः । सोमशुष्कायणस्तस्मात्तृणबिंदुरिति स्मृतः
ऋक्षोभूद्भार्गवस्तस्माद्वाल्मीकिर्योभिधीयते । तस्मादस्मत्पिता शक्तिर्व्यासस्तस्मादहं मुने
जातुकर्णोभवन्मत्तः कृष्णद्वैपायनस्ततः । अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः
एको वेदश्चतुर्द्धा तु तैः कृतो द्वापरादिषु