सवनो द्युतिमान् भव्यो वसुर्मेधातिथिस्तथा । ज्योतिष्मान् सप्तमः सत्यस्तत्रैते च महर्षयः ॥ ३,२.
धृतकेतुर्दीप्तिकेतुः पञ्चहस्तनिरामयौ । पृथुश्रवाद्याश्च तथा दक्षमावर्णिकात्मजाः ॥ ३,२.
दसमो ब्रह्मसावर्मिर्भविष्यति मुने मनुः । सूधामानो विशुद्धाश्च शतसंख्यास्तथा सुराः ॥ ३,२.
तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः । सप्तर्षयो भविष्यन्ति ये तथा ताञ्छृणुष्व ह ॥ ३,२.
हविष्मान्सुकृतःसत्यस्तपोमूर्तिस्तथापरः । नाभागोऽप्रतिमौजाश्चसत्यकेतुस्तथैव च ॥ ३,२.
सुक्षेत्रश्चोत्तमौजाश्चभूरिषेणादयो दश । ब्रह्मसावर्णिपुत्रास्तु रक्षिष्यन्ति वसुंधराम् ॥ ३,२.
एकादशश्च भविता धर्मसावर्णिको मनुः ॥ ३,२.
विहङ्गमाः कामागमा निर्वाणा ऋषयस्तथा । गणास्त्वेते तदा मुख्या देवानां च भविष्यताम् । ऐकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश्च वै पृषा ॥ ३,२.
निः स्वरश्चाग्नितेजाश्च वपुष्मान्घणिरारुणिः । हविष्माननघश्चैव भाव्याः सप्तर्षयस्तथा ॥ ३,२.
सर्वत्रगस्शुधर्मा च देवानीकादयस्तथा । भविष्यन्ति मनोस्तस्य तनयाः पृतिविश्वराः ॥ ३,२.
रुद्रपुत्रस्तु सावर्णिर्भविता द्वादशो मनुः । ऋतुधामा च तत्रेन्द्रो भविता शृणु मे सुरान् ॥ ३,२.
हरिता रोहिता देवास्तथा सुमनसो द्विज । सुकर्माणः सुरापाश्च दशकाः पञ्च वै गणाः ॥ ३,२.
तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः । तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः । सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे ॥ ३,२.
देववानुपदेवश्च देवश्रेष्ठादयस्तथा । मनोस्तस्य महावीर्या भविष्यन्ति महानृपाः ॥ ३,२.
त्रयोदशो रुचिर्नामा भविष्यति मुने मनुः ॥ ३,२.
सुत्रामाणः सुकर्माणः सुधर्माणस्तथामराः । त्रयस्त्रिंशद्विभेदास्त देवानां यत्र वै गणाः ॥ ३,२.
दिवस्पतिर्महावीर्यस्तेषामिन्द्रोभिविष्यति ॥ ३,२.
निर्मोहस्तत्त्वदर्शि च निष्प्रकंप्यो निरुत्सुकः । धृतिमानव्ययश्चान्यःसप्तमःसुतपा मुनिः । सप्तर्षयस्त्वमी तस्य पुत्रानपि निबोधे मे ॥ ३,२.
चित्रसेनविचित्राद्या भविष्यन्ति महीक्षिकः ॥ ३,२.
भौमश्चतुर्दशश्चात्र मैत्रेय भविता मनः । शुचिरिन्द्रः सुरगणस्तत्र पञ्च शृणुष्व तान् ॥ ३,२.
चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजिकास्तथा । वाचवृद्धश्च वै देवाःसप्तर्षीनपि मे शृणु ॥ ३,२.
अग्निबाहुः शुचिः शुक्रो मागधोग्नीध्र एव च । युक्तस्तथा जितश्चान्यो मनुपुत्रानतः शृणु ॥ ३,२.
ऊरुगंभीरबुद्ध्याद्या मनोस्तस्य सुता नृपाः । कथिता मुनिशार्दुल पालयिष्यन्ति ये महीम् ॥ ३,२.
चतुर्युगान्ते वेदानां जायते किल विप्लवः । प्रवर्तयन्ति तानेत्य भुवं सप्तर्षयो दिवः ॥ ३,२.
कृतेकृते स्मृतेर्विप्र प्रणेता जायते मनुः । देवा यज्ञभुजस्ते तु यावन्मन्वन्तरं तु तत् ॥ ३,२.
भवन्ति ये मनोः पुत्रा यावन्मन्वंरतं तु तैः । तदन्वयोद्भवैश्चैव तावद्भूः परीपाल्यते ॥ ३,२.
मनुःसप्तर्षयो देवा भूपालाश्च मनोः सुताः । मन्वन्तरे भवन्त्येते शक्रश्चैवाधिकारिमः ॥ ३,२.
चतुर्दशभिरेतैस्तु गतैर्मन्वन्तरैर्द्विज । सहस्रयुगपर्यतः कल्पो निःशेष उच्यते ॥ ३,२.
तावत्प्रमाणा च निशा ततो भवति सत्तम । ब्रह्मरूपधरः शेते शेषाहावंबुसंप्लवे ॥ ३,२.
त्रैलोक्यमखिलं ग्रस्त्वा भगवानादिकृद्विभुः । स्वमायासंस्थितो विप्र सर्वभूतो जनार्दनः ॥ ३,२.