तामसस्यान्तरे चैव संप्राप्तो पुनरेव हि । हर्यायां हरिभिः सार्ध हरिरेव बभूव ह ॥ ३,१.
रैवतेप्यन्तरे देवःसंभूत्यां मानसो हरिः । संभूतो रैवतैः सार्ध देवैर्देववरो हरिः ॥ ३,१.
चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः । विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह ॥ ३,१.
मन्वन्तरेत्र संप्राप्ते तथा वैवस्वते द्विज । वामनः काश्यपाद्विष्णुरदित्यां संबभूव ह ॥ ३,१.
त्रिभिः क्रमैरिमांल्लोकाञ्जित्वा येन महात्मना । पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥ ३,१.
इत्येतास्तनवस्तस्य सप्तमन्वन्तरेषु वै । सप्तस्वेवाभवन्विप्र याभिः संवर्धिताः प्रजाः ॥ ३,१.
यस्माद्विष्टमिदं विश्वं यस्य शक्त्या महात्मनः । तस्मात्स प्रोच्यते विष्णुर्विशोर्धातोः प्रवेशनात् ॥ ३,१.
सर्वे च देवा मनवः समस्ताः सप्तर्षयो ये मनुसूनवश्च । इन्द्रश्चयोऽयं त्रिदशेशभूतो विष्णोरशोषास्तु विभूतयस्ताः ॥ ३,१.
मैत्रेय उवाच प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै । भविष्याण्यपि विप्रर्ष ममाख्यातुं त्वमर्हसि ॥ ३,२.
श्रीपराशर उवाच सूर्यस्य पत्नी संज्ञाभूत्तनया विश्वकर्मणः । मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥ ३,२.
असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै । भर्तृशुश्रूषणेऽरण्यंस्वयं च तपसे ययौ ॥ ३,२.
संज्ञेयमित्यथार्कश्च छायायामात्मजत्रयम् । शनैश्चरं मनुं चान्यं तपतीं चाप्यजाजनत् ॥ ३,२.
छायासंज्ञा ददौ शापं यमाय कुपिता यदा । तदान्येयमसौ बुद्धिरित्यासीद्यमसूर्ययोः ॥ ३,२.
ततो विवस्वानाख्यातां तयैवारण्यसंस्थिताम् । समाधिदृष्ट्याददृशे तामश्वां तपसि स्थिताम् ॥ ३,२.
वाजिरूपधरः सोथ तस्यां देवावथाश्विनौ । जनयामास रेवन्तं रेतसोंते च भास्करः ॥ ३,२.
आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान् रविः । तेजसः शमनं चास्य विश्वकर्मा चकार ह ॥ ३,२.
भ्रममारोप्य सूर्यं तु तस्य तेजोनिशातनम् । कृतवानष्टमं भागं स व्यशातयदव्ययम् ॥ ३,२.
यत्तस्माद्वैष्णवं तेजस्शातितं विश्वकर्मणा । जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम ॥ ३,२.
त्वष्टैव तेजसा तेन विष्णोश्चक्रमकल्पयत् । त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च ॥ ३,२.
शक्तिं गुहस्य देवानामन्येषां च यदायुधम् । तत्सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत् ॥ ३,२.
छायासंज्ञासुतो योसौ द्वितीयः कथितो मनुः । पूर्वजस्यासवर्णोसौ सावर्णिस्तेन कथ्यते ॥ ३,२.
तस्य मन्वन्तरं ह्योतत्सावर्णिकमथाष्टमम् । तच्छृणुष्व महाभाग भविष्यत्कथयामि ते ॥ ३,२.
सावर्णिस्तु मनुर्योसौ मैत्रेय भविता ततः । सुतपाश्चामिताभाश्च मुख्याश्चापि तथा सुराः ॥ ३,२.
तेषां गणाश्च देवानामेकैको विंशकः स्मृतः । सप्तर्षिनपि वक्ष्यामि भविष्यान्मुनिसत्तम ॥ ३,२.
दीप्तिमान् गालवो रामः कृपो द्रोणिस्तथा परः । मत्पुत्रश्च तथा व्यास ऋष्यशृङ्गश्च सप्तमः ॥ ३,२.
विष्णु प्रसादादनघः पातालान्तरगोचरः । विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥ ३,२.
विरजाश्चोर्वरीवांश्च निर्मोकाद्यास्तथापरे । सावर्णेस्तु मनोः पुत्रा भविष्यन्ति नरेश्वराः ॥ ३,२.
नवमो दक्षसावर्णिर्भविष्यति मुने मनुः ॥ ३,२.
पारा मरीचिगर्भाश्च सुधर्माणस्तथा त्रिधा । भविष्यन्ति तथा देवा ह्योकैको द्वादशो गणः ॥ ३,२.
तेषामिद्रो महावीर्यो भविष्यत्यद्भुतो द्विज ॥ ३,२.