अत ऊर्ध्वं प्रवक्ष्यामि मनोः स्वारोचिषस्य तु । मन्वन्तराधिपान्सम्यग्देवर्षिंस्तत्सुतांस्तथा ॥ ३,१.
पारावताः सतुषिता देवाः स्वारोचिषेऽन्तरे । विपश्चित्तत्र देवेन्द्रो मैत्रेयासीन्महाबलः ॥ ३,१.
ऊर्जस्तंभस्तथा प्राणो वातोथ* पृषभस्तथा । (*पाठ. दत्तोग्नी ऋषभस्तथा) निरयश्च परीवांश्च तत्र सप्तर्षयोऽभवन् ॥ ३,१.
चैत्रकिंपुरुषाद्याश्च सुताः स्वारोचिषस्य तु । द्वितीयमेतद्व्याख्यातमन्तरं शृणु चोत्तमम् ॥ ३,१.
तृतीयेप्यन्तरे ब्रह्मन्नुत्तमो नाम यो मनुः । सुशान्तिर्नाम देवेन्द्रो मैत्रेयासीत्सुताञ्छृणु ॥ ३,१.
सुधामानस्तथा सत्या जपाश्चाथ प्रतर्दनाः । वशवर्तिश्च पञ्चैते गणा द्वादशकाः स्मृताः ॥ ३,१.
वसिष्ठतनया ह्येते सप्त सप्तर्षयोभवन् । अजः परशुदीप्ताद्यास्तथोत्तममनोः सुताः ॥ ३,१.
तामसस्यान्तरे देवाः सुपारा हरयस्तथा । सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥ ३,१.
शिविरिन्द्रस्तथा चासीच्छतयज्ञोपलक्षमः । सप्तर्षयश्च ये तेषां तेषां नामानि मे शृणु ॥ ३,१.
ज्योतिर्धामा पुथुः कात्यश्चैत्रोग्निर्धनकस्तथा । पीवरश्चर्षयो ह्येते सप्त तत्रापि चान्तरे ॥ ३,१.
नरः ख्यातिः केतुरूपो जानुजङ्घादयस्तथा । पुत्रास्तु तामसस्यासन्नाजानः सुमहाबलाः ॥ ३,१.
पञ्चमे वापि मैत्रेय रैवतो नाम नामतः । मनुर्विभुश्च तत्रेन्द्रो देवांश्चात्रान्तरे शृणु ॥ ३,१.
अमिताभा भूतरया वैकुण्ठाः सुसमेधसः । एते देवगणास्तत्र चतुर्दश चतुर्दश ॥ ३,१.
हिरण्यरोमा वेदाश्रिरूर्ध्वबाहुस्तथावरः । वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः । एते सप्तर्षयो विप्र तत्रासन्रैवतेन्तरे ॥ ३,१.
बलबन्धुश्च संभाव्यः सत्यकाद्याश्च तत्सुताः । नरेन्द्राश्च महावीर्या बभूवुर्मुनिसत्तम ॥ ३,१.
स्वारोचिषश्चौत्तमश्च तामसो रैवतस्तथा । प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः ॥ ३,१.
विष्णुमाराध्य तपसा स राजर्षिः प्रियव्रतः । मन्वन्तराधिपानेताल्लंब्धवानात्मवंशजान् ॥ ३,१.
षष्ठे मन्वंरते चासीच्चाक्षुषाख्यस्तथा मनुः । मनोजवस्तथैवेन्द्रो देवानपि निबोध मे ॥ ३,१.
आप्याः प्रसूता भव्याश्च पृथुकाश्चा दिवौकसः । महानुभावा लेखाश्च पञ्चैते ह्यष्टका गणाः ॥ ३,१.
सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः । अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥ ३,१.
ऊरुः पूरुः शतद्युम्नप्रमुखाः सुमहाबलाः । चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन् ॥ ३,१.
विवस्वतः सुतो विप्र श्राद्धदेवो महाद्युतिः । मनुः संवर्तते धीमान् सांप्रतं सप्तमेन्तरे ॥ ३,१.
आदित्यवसुरुद्राद्या देवाश्चात्र महामुने । पुरन्दरस्तथैवात्र मैत्रेय त्रिदशेश्वरः ॥ ३,१.
वशिष्ठः काश्यपोथात्रिर्जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.
इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तश्च विख्यातो नाभागोरिष्ट एव च ॥ ३,१.
करूषश्च पृषध्रश्च सुमहांल्लोकविश्रुतः । मनोर्वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः ॥ ३,१.
विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता । मन्वन्तरेष्वशेषेषु देवत्वेनाधितिष्ठति ॥ ३,१.
अंशेन तस्या जज्ञेऽसौ यज्ञःस्वायंभुवेन्तरे । आकूत्यां मानसो देव उत्पन्नः प्रथमेन्तरे ॥ ३,१.
ततः पुनः स वै देवः प्राप्ते स्वारोचिषेन्तरे । तुषितायां समुत्पन्नो ह्याजिषस्तुषितैः सह ॥ ३,१.
औत्तमप्यन्तरे देवस्तुषितस्तु पुनः स वै । सत्यायामभवत्सत्यः सत्यैः सह सुरोत्तमैः ॥ ३,१.