उपर्य्यहं यथा राजा त्वमधः कूञ्जरो यथा । अवबोधाय ते ब्रह्मन् ! दृष्टान्तो दसितो मया
त्वं राजेव द्रिजश्वेष्ठ! स्थितोऽहं गजवद् यदि । तदेतत् त्वं समाचक्ष्व कतमस्त्वमहं तता
इत्युक्तः सत्वरं तस्य प्रगृह्म चरणावुभौ । निदाघः प्राह भगवानाचार्य्यस्त्वमृबुध्रुर्वम्
नान्यस्यादू तसंस्कारस्कृतं मानसं तथा । यथाचार्य्यस्य तन त्वां मन्ये प्राप्तमह गुरुम् ।। 16 तवोपदेशदानाय पूर्व्वशुश्रूषणादृतः । गुरुस्तेऽहमृभुर्नाम्रा निदाघ! समुपागतः
तदेतदुपदिष्टं सङ्क्ष पेण महामते । परमार्थसारभूतं यददूतैमशेषतः
एवमुक्त्वा ययौ विद्रान् निदाघं स ऋबुर्गुरुः । नदाघोऽप्युपदेशीन तेनादूतैपरोऽभवत्
सर्व्भूतान्यभेदेन ददृशे स तदान्मनः । यथा ब्रह्मपरो मुक्तिपवाप परमां द्रिज
तथा त्वमपि धर्म्मज्ञ ! तुल्यात्मरिपुबान्धवः । भव सर्व्वगतं जानन्नात्मानमवनीपते
सितनीलादिभेदेन यथैकः दृश्यते नभः । भ्रान्तिदृष्टिभिरात्मापि तथैकं सन् पृथक् पृथक्
एकः समस्तं यदिहास्ति किञ्चित् तदच्युतो नास्ति परं ततोऽन्यत् । सोऽहं स च त्वं स च सर्व्वमेत- दात्मखरूपं त्यज भेदमोहम्
पराशर उवाच । इतीरितस्तेन स राजवर्य्य स्तत्याज भेदं परमार्थदृष्टिः । स चापि जातिस्मरणाप्तबोध- स्तत्रैव जन्मन्यपवर्गमाप
इति भरतःनरेन्द्रसारवृत्तं कथयति यश्व श्वृणोति भक्तियुक्तः । स विमलमतिरेति नात्ममोहं भवति च संसरणेषु मुक्तियोग्यः
मैत्रेय उवाच कथिता गुरुणा सम्यग्भूसमुद्रादिसंस्थितिः । सूर्यादिनां च संस्थानं ज्योतिषां चातिविस्तरात् ॥ ३,१.
देवादीनां तथा सृष्टिर्ऋषीणां चापि वर्णिता । चातुर्वर्ण्यस्य चोत्पत्तिस्तिर्यग्योनिगतस्य च ॥ ३,१.
ध्रुवप्रह्लादचरितं विस्तराच्च त्वयोदितम् । मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् ॥ ३,१.
मन्वन्तराधिपांश्चैव शक३ एवपुरोगमान् । भवता कथितानेताञ्छ्रोतुमिच्छाम्यहं गुरो ॥ ३,१.
श्रीपराशर उवाच अतीतानागतानीह यानि मन्वन्तराणि वै । तान्यहं भवतः सम्यक्लथयामि यथा क्रमम् ॥ ३,१.
स्वायंभुवो मनुः पूर्वं परः स्वारोचिषस्तथा । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ३,१.
षडेते मनवोतीताः सांप्रतं तु रवेः सुतः । वैवस्वतेयं यस्त्वेतत्मप्तमं वर्ततेन्तरम् ॥ ३,१.
स्वायंभुवं तु कथितं कल्पादावन्तरं मया । देवाः सप्तर्षयश्चैव यथावत्कथिता मया ॥ ३,१.
अत ऊर्ध्वं प्रवक्ष्यामि मनोः स्वारोचिषस्य तु । मन्वन्तराधिपान्सम्यग्देवर्षिंस्तत्सुतांस्तथा ॥ ३,१.
पारावताः सतुषिता देवाः स्वारोचिषेऽन्तरे । विपश्चित्तत्र देवेन्द्रो मैत्रेयासीन्महाबलः ॥ ३,१.
ऊर्जस्तंभस्तथा प्राणो वातोथ* पृषभस्तथा । (*पाठ. दत्तोग्नी ऋषभस्तथा) निरयश्च परीवांश्च तत्र सप्तर्षयोऽभवन् ॥ ३,१.
चैत्रकिंपुरुषाद्याश्च सुताः स्वारोचिषस्य तु । द्वितीयमेतद्व्याख्यातमन्तरं शृणु चोत्तमम् ॥ ३,१.
तृतीयेप्यन्तरे ब्रह्मन्नुत्तमो नाम यो मनुः । सुशान्तिर्नाम देवेन्द्रो मैत्रेयासीत्सुताञ्छृणु ॥ ३,१.
सुधामानस्तथा सत्या जपाश्चाथ प्रतर्दनाः । वशवर्तिश्च पञ्चैते गणा द्वादशकाः स्मृताः ॥ ३,१.
वसिष्ठतनया ह्येते सप्त सप्तर्षयोभवन् । अजः परशुदीप्ताद्यास्तथोत्तममनोः सुताः ॥ ३,१.
तामसस्यान्तरे देवाः सुपारा हरयस्तथा । सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥ ३,१.
शिविरिन्द्रस्तथा चासीच्छतयज्ञोपलक्षमः । सप्तर्षयश्च ये तेषां तेषां नामानि मे शृणु ॥ ३,१.
ज्योतिर्धामा पुथुः कात्यश्चैत्रोग्निर्धनकस्तथा । पीवरश्चर्षयो ह्येते सप्त तत्रापि चान्तरे ॥ ३,१.