ऋबुरुवाच । क्षुदू यस्य तस्य भुक्तेऽन्ने तृप्तिर्ब्राह्मण! जायते । न मे क्षु न्नाभवत् तृप्तिः कस्मान्मां परिपृच्छसि
वह्निना पार्थिवे धातौ क्षयिते क्षु त्सनुद्भवः । भवत्यम्भांस च क्षीणो नृणां तृड़पि जायते
क्षुत्तृषौ देहधर्म्माख्ये न ममैते यतो द्रिज । ततः क्षु त्सम्भवाभावात् तृप्तिरस्त्येव मे सदा
मनसः स्वस्थता तुष्टिश्वित्तधर्म्माविमौ द्रिज । चेतसो यस्य तत् पृच्छ पुमानेबिर्न युज्यते
क्व निवासस्तवेत्युक्तं क्व गन्तासि स यत् त्वया । कु तश्वागम्यते तत्र त्रितयेऽपि निबोध मे
पुमान् सर्व्वगतो व्यापा आकाशवदयं यतः । कुतः कुत्र क्व गन्तासीत्येतदप्यर्थवत् कथम्
नाहं गन्ता न चागन्ता नैकदेशनिकेतनः । त्वं चान्येच न च त्वं त्वं नान्ये नैवाहमप्यहम्
मष्टं न मष्टमप्येषा जिज्ञासा मे कृता तव । किं वक्ष्यसीति तत्रापि श्रूयतां द्रिजसत्तम
किमस्वादूथवा मृष्टं भुञ्जतोऽन्नं द्रिजोत्तम । मृष्टमेव यदामृष्टं तदैवोदू गकारकम्
अमृष्टं जायते मृष्टं मृष्टादुद्रिजते जनः । आदिमध्यावसानेषु किमन्नं रुचिकारकम्
मृन्मयं हि गृहं यदून्मृदा लिप्त स्थिरं भवेत् । पार्थिवोऽयं तथा देहः पार्थिवैः परमाणभिः
. यव-गोधूम-मुदूगादि घृतं तैलं पयो दधि । गुड फलादीनि तथा पार्थिवाः परमाणवः
तदेतदू भवता ज्ञात्वा मृष्टामृष्टविचारि यत् । तन्मनः समातालम्बि कार्य्यं साम्यं हि मुक्तय
इतायाकर्ण्य वच्स्तस्य परमार्थाश्रितं नृफ! प्रणिपत्य महाभागे निदाघो वाक्यमब्रवीत्
प्रसीद मद्धितार्थाय कथ्यतां यस्त्वमागतः । नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्रिज
ऋभुरस्मि तवाचार्य्यः प्रज्ञादानाय ते द्रिज! इहागतोऽहं यास्यामि परमार्थस्तवोदितः
एवमेकमिदं विद्धि न भेदि सकलं जगत् । वासुदेवाभिधेयस्य स्वरूपं परमात्मनः
तथेत्युक्त्वा निदाघेन प्रणिपातपुरः सरम् । पूजितः परया भतया इच्छातः प्रययावृभुः
ऋबुर्वर्षसहस्त्र तु समतीते नरेश्वर! निदाघज्ञानदानाय तदेव नगरं ययौ
नगरस्य वहिः सोऽथ निदाघं ददृशे मुनिः । महाबलपरीवारे पुरं विशति पार्थिवे
दूरे स्थितं महाभागं जंनसम्मर्द्द वर्ज्जकम् । क्षु त्क्षामकण्ठमायान्तमराण्यात् ससमितुकुशम्
दृष्वा निदाघं स ऋभुरुपगम्याभिवाद्य च । उवाच कस्मादेकान्ते स्थीयते भवता द्रिज
बो विप्र ! जनसम्मर्द्दो महानेष महनिष जनिश्वरे । प्रविविक्षौ पुरं रम्यं तेनात्र स्थीयते मया
नराधिपोऽत्र कतमः कतमश्चेतरो जनः । कथ्यतां मे द्रिजश्वेष्ठ! त्वमभिज्ञो मतो मम
योऽयं गजेन्द्रमुन्मत्तमद्रिश्वृङ्गसमुच्छिर्तम् । अधिरूढो नरेन्द्रोऽयं परलोकस्तथेतरः
एतौ हि गज-राजानौ युगपदू दशितौ मम । बवता न विशेषेण पृथकूचिह्नपिलक्षणौ
तत् कथ्यतां महाभाग ! विशेषो भवतानयोः । ज्ञातु मिच्छाम्यहं कोऽत्र गजः को वा नराधिपः
गजो योऽयमधो ब्रह्मन् ! उपर्य्यस्यैष भूपतिः
जानाम्यहं यथा ब्रह्म स्तथा मामवबोधम । अवःशह्दनिगद्य किं किञ्चोद्ध्व मभिधीयते
इत्युक्तः सहसारुह्म निदाघः प्राह त ऋबुम् । श्रूयतां कथयाम्येष यन्मां त्वं परिपृच्छसि