स तस्य वैश्वदेवान्ते द्रारालोकनगोचरे । स्थितस्तेन गृहीतार्घ्यो निजवेश्म प्रवेशितः
पर्क्षालिताङ घ्रिपाणिं च कृतासनपरिग्रहम् । उवाच स द्रिजश्वेष्ठो भूज्यतामिति सादरम्
ऋभुरुवाच । भो विप्रवर्य्य! भोक्तव्यं यदन्नं भवतो गृहे । तत् कथ्यतां कदन्नेषु न प्रीतिः सतत मम
निदाघ उवाच । भक्त-यावक-वाठ्यानामपूपानाञ्च मे गृहे । यदू रोचते द्रिजश्रेष्ठ!तत् त्वं भुङ श्र्व यथेच्छया
ऋभुरुवाच । कदन्नानि द्रिजैतानि मृष्टमन्नं प्रयच्छ मे । संयाव-पायसादीनि द्रप्स्यफाणितावन्ति च
निदाघ उवाच । हे हे शालिनि मदगेहे यत किञ्चिदतिशोभनम् । भक्ष्योपसाधनं मष्टं तेनास्यान्नां प्रसाधय
ब्राह्मण उवाच । इत्युक्ता तेन सा पत्री मृष्टमन्नं द्रिजस्य यत् । प्रसाधितवती तदू वै भर्त्तुर्वचनगौरवात्
तं भुक्तवन्तमिच्छातो मृष्टमन्नं महामुनिम् । निदाघः प्राह भूपाल! प्रश्रयावनतः स्थितः
निदाघ उवाच । अपि ते परमा तृप्तिरुत्पन्ना तुष्टिरेव च । अपि ते मानसं खस्थमाहारेण कृतं द्रिज
क्क निवासो भवान् विप्र ! क्क च गन्तु समुद्यतः । आगम्यते च भवता यतस्तज्व द्रिजोच्यताम्
ऋबुरुवाच । क्षुदू यस्य तस्य भुक्तेऽन्ने तृप्तिर्ब्राह्मण! जायते । न मे क्षु न्नाभवत् तृप्तिः कस्मान्मां परिपृच्छसि
वह्निना पार्थिवे धातौ क्षयिते क्षु त्सनुद्भवः । भवत्यम्भांस च क्षीणो नृणां तृड़पि जायते
क्षुत्तृषौ देहधर्म्माख्ये न ममैते यतो द्रिज । ततः क्षु त्सम्भवाभावात् तृप्तिरस्त्येव मे सदा
मनसः स्वस्थता तुष्टिश्वित्तधर्म्माविमौ द्रिज । चेतसो यस्य तत् पृच्छ पुमानेबिर्न युज्यते
क्व निवासस्तवेत्युक्तं क्व गन्तासि स यत् त्वया । कु तश्वागम्यते तत्र त्रितयेऽपि निबोध मे
पुमान् सर्व्वगतो व्यापा आकाशवदयं यतः । कुतः कुत्र क्व गन्तासीत्येतदप्यर्थवत् कथम्
नाहं गन्ता न चागन्ता नैकदेशनिकेतनः । त्वं चान्येच न च त्वं त्वं नान्ये नैवाहमप्यहम्
मष्टं न मष्टमप्येषा जिज्ञासा मे कृता तव । किं वक्ष्यसीति तत्रापि श्रूयतां द्रिजसत्तम
किमस्वादूथवा मृष्टं भुञ्जतोऽन्नं द्रिजोत्तम । मृष्टमेव यदामृष्टं तदैवोदू गकारकम्
अमृष्टं जायते मृष्टं मृष्टादुद्रिजते जनः । आदिमध्यावसानेषु किमन्नं रुचिकारकम्
मृन्मयं हि गृहं यदून्मृदा लिप्त स्थिरं भवेत् । पार्थिवोऽयं तथा देहः पार्थिवैः परमाणभिः
. यव-गोधूम-मुदूगादि घृतं तैलं पयो दधि । गुड फलादीनि तथा पार्थिवाः परमाणवः
तदेतदू भवता ज्ञात्वा मृष्टामृष्टविचारि यत् । तन्मनः समातालम्बि कार्य्यं साम्यं हि मुक्तय
इतायाकर्ण्य वच्स्तस्य परमार्थाश्रितं नृफ! प्रणिपत्य महाभागे निदाघो वाक्यमब्रवीत्
प्रसीद मद्धितार्थाय कथ्यतां यस्त्वमागतः । नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्रिज
ऋभुरस्मि तवाचार्य्यः प्रज्ञादानाय ते द्रिज! इहागतोऽहं यास्यामि परमार्थस्तवोदितः
एवमेकमिदं विद्धि न भेदि सकलं जगत् । वासुदेवाभिधेयस्य स्वरूपं परमात्मनः
तथेत्युक्त्वा निदाघेन प्रणिपातपुरः सरम् । पूजितः परया भतया इच्छातः प्रययावृभुः
ऋबुर्वर्षसहस्त्र तु समतीते नरेश्वर! निदाघज्ञानदानाय तदेव नगरं ययौ
नगरस्य वहिः सोऽथ निदाघं ददृशे मुनिः । महाबलपरीवारे पुरं विशति पार्थिवे