यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया । तत्कारणानुगमनाज्ज्ञायते नृप मृण्मयम् ॥ २,१४.
एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः । निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥ २,१४.
अनाशो परमार्थश्च प्राज्ञौरभ्युपगम्यते । तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥ २,१४.
तदेवाफलदं कर्म परमार्थो मतस्तव । मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ॥ २,१४.
ध्यानं चैवात्मनो भूपु परमार्थार्थशब्दितम् । भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ॥ २,१४.
परमात्मात्मनोर्योगः परमार्थ इतीष्यते । मिथ्यैतदन्यद्रव्यं हि नैति तद्द्रव्यतां यतः ॥ २,१४.
तस्माच्छ्रेयांस्यशेषाणि नृवैतानि न संशयः । परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ॥ २,१४.
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः । जन्मवृद्ध्यादिरहित आत्मा सर्वगतोव्ययः ॥ २,१४.
परज्ञानमयो सद्भिर्नामजात्यादिभिर्विभुः । न योगवान्न युक्तोभून्नैव पार्थिव योक्ष्यते ॥ २,१४.
तस्यात्मपरदेहेषु सतोप्येकमयं हि यत् । विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यर्शिनः ॥ २,१४.
वेणुरन्ध्रप्रभेदेन भेदः षङ्जादिसंज्ञितः । अभेदव्यापिनोवायोस्तथास्य परमात्मनः ॥ २,१४.
एकस्वरूपभेदश्च ब्राह्मकर्मावृतिप्रजः । देवादिभेदेऽपध्वस्ते नास्त्येवावरणे हि सः ॥ २,१४.
पराशर उवाच । इत्युक्ते मौनिनं भूयश्विन्तयानं महीपतिम् । प्रत्युवाचाथ विप्रोऽसावदू तौन्तर्गतां कथाम्
श्रूयतां नृपशाद्दूल! यदूगोतमृबुणा पुरा । अवबोधं जनयता निदाघस्य महात्मनः
ऋभुर्नामाभवत् पुत्रो ब्रह्मणः परमेष्ठिनः । विज्ञाततत्त्वसद्रावो निसर्गादेव भूपते
तस्य शिष्यो निदाघोऽबूत् पुलस्त्यतनयः पुरा । प्रादादशेषविज्ञानं स तस्मै परया मुदा
अवाप्यज्ञानत्त्वस्य न तस्यादूतैवासनाम । स ऋभुस्तर्कयामास निदाघस्य नरेश्वर
देविकायास्तटे वीरनगरं नाम वै पुरम् । समृद्धमतिरम्यं च पुलस्त्येन निवेशितम्
रम्योपवनपर्य्यन्ते स तस्मिन् पार्थिवोत्तम ! निदाघो नाम योगज्ञ ऋभुशिष्योऽवसत् पुरा
दिव्येवर्षसहस्त्रे तु समतीतेऽस्य तत्पुरम् । जगाम स ऋभुः शिष्यं निदाघमवलोककः
स तस्य वैश्वदेवान्ते द्रारालोकनगोचरे । स्थितस्तेन गृहीतार्घ्यो निजवेश्म प्रवेशितः
पर्क्षालिताङ घ्रिपाणिं च कृतासनपरिग्रहम् । उवाच स द्रिजश्वेष्ठो भूज्यतामिति सादरम्
ऋभुरुवाच । भो विप्रवर्य्य! भोक्तव्यं यदन्नं भवतो गृहे । तत् कथ्यतां कदन्नेषु न प्रीतिः सतत मम
निदाघ उवाच । भक्त-यावक-वाठ्यानामपूपानाञ्च मे गृहे । यदू रोचते द्रिजश्रेष्ठ!तत् त्वं भुङ श्र्व यथेच्छया
ऋभुरुवाच । कदन्नानि द्रिजैतानि मृष्टमन्नं प्रयच्छ मे । संयाव-पायसादीनि द्रप्स्यफाणितावन्ति च
निदाघ उवाच । हे हे शालिनि मदगेहे यत किञ्चिदतिशोभनम् । भक्ष्योपसाधनं मष्टं तेनास्यान्नां प्रसाधय
ब्राह्मण उवाच । इत्युक्ता तेन सा पत्री मृष्टमन्नं द्रिजस्य यत् । प्रसाधितवती तदू वै भर्त्तुर्वचनगौरवात्
तं भुक्तवन्तमिच्छातो मृष्टमन्नं महामुनिम् । निदाघः प्राह भूपाल! प्रश्रयावनतः स्थितः
निदाघ उवाच । अपि ते परमा तृप्तिरुत्पन्ना तुष्टिरेव च । अपि ते मानसं खस्थमाहारेण कृतं द्रिज
क्क निवासो भवान् विप्र ! क्क च गन्तु समुद्यतः । आगम्यते च भवता यतस्तज्व द्रिजोच्यताम्