शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् । तेषामेव हि तीर्थेन कुर्वीत सुसमाहितः
त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत् । ऋषीणां च यथान्यायं सकृच्चापि प्रजापतेः
पितॄणां प्रीणनार्थाय तदपः पृथिवीपते । पितामहेभ्यश्च तथा प्रीणयेत्प्रपितामहान्
मातामहाय तत्पित्रे तत्पित्रे च समाहितः । दद्यात्पैत्रेण तीर्थेन काम्यं चान्यच्छृणुष्व मे
मात्रे प्रमात्रे तन्मात्रे गुरुपत्न्यै तथा नृप । गुरूणां मातुलानां च स्निग्धमित्राय भूभुजे
इदं चापि जपेदम्बु दद्यादात्मेच्छया नृप । उपकाराय भूतानां कृतदेवादितर्पणम्
देवासुरास्तथा यक्षा नागगन्धर्वराक्षसाः । पिशाचा गुह्यकास्सिद्धाः कूष्माण्डाः पशवः खगाः
जलेचरा भूनिलया वाय्वाहाराश्च जन्तवः । तृप्तिमेतेन यान्त्याशु मद्दत्तेनाम्बुनाऽखिलाः
नरकेषु समस्तेषु यातनासु च संस्थिताः । तेषामाप्यायनायैतद्दीयते सलिलं मया
ये बान्धवा बान्धवा ये येऽन्यजन्मनि बान्धवाः । ते तृप्तिमखिला यान्तु ये चास्मत्तोयकाङ्क्षिणः
यत्र क्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् । इदमाप्यायनायास्तु मया दत्तं तिलोदकम्
काम्योदकप्रदानं ते मयैतत्कथितं नृप । यद्दत्त्वा प्रीणयत्येतन्मनुष्यस्सकलं जगत् । जगदाप्यायनोद्भूतं पुण्यमाप्नोति चानघ
दत्त्वा काम्योदकं सम्यगेतेभ्यः श्राद्धयान्वितः । आचम्य च ततो दद्यात्सूर्याय सलिलांजलिम्
नमो विवस्वते ब्रह्मभास्वते विष्णुतेजसे । जगत्सवित्रे शुचये सवित्रे कर्मसाक्षिणे
ततो गृहाऽर्चनं कुर्यादभीष्टसुरपूजनम् । जलाभिषेकैः पुष्पैश्च धूपाद्यैश्च निवेदनम्
अपूर्वमग्निहोत्रं च कुर्यात्प्राग्ब्रह्मणे नृप
प्रजापतिं समुद्दिश्य दद्यादाहुतिमादरात् । गृहेभ्यः काश्यपायाथ ततोनुमतये क्रमात्
तच्छेषं मणिके पृथ्वीपर्जन्येभ्यः क्षिपेत्ततः । द्वारे धातुर्विधातुश्च मध्ये च ब्रह्मणे क्षिपेत्
गृहस्य पुरषव्याघ्र दिग्देवानपि मे शृणु
इंद्रा य धर्मराजाय वरुणाय तथेंदवे । प्राच्यादिषु बुधो दद्याद्धुतश्षोआ!त्मकं बलिम्
प्रागुत्तरे च दिग्भागे धन्वंतारिबलिं बुधः । निर्वपैद्वैश्वदेवं च कर्म कुर्य्यादतः परम्
वायव्यां वायवे दिक्षु समस्तासु यथादिशम् । ब्रह्मणे चांतरिक्षाय भानवे च क्षिपेद्बलिम्
विश्वेदेवान्विश्वभूतानष्टौ विश्वपतीन्पितॄन् । यक्षाणां च समुद्दिश्य बलिं दद्यान्नरेश्वर
ततोन्यदन्नमादाय भूमि भागे शुचौ बुधः । दद्यादश्षोभूतेभ्यस्स्वेच्छया सुसमाहितः
देवा मनुष्याः पशवो वयांसि सिद्धास्सयक्षोरगदैत्यसङ्घाः । प्रतोः पिशाचास्तरवस्समस्ता ये चान्नमिच्छन्ति मयात्र दत्तम् ५१ । पिपीलिकाः कीटपतंङ्गकाद्या बुभुक्षिताः कर्मनिबंधबद्धाः । प्रयांति ते तृप्तिमिदं मयान्नं तेभ्यो विसृष्टं सुखिनो भवंतु ५२ । येषां न माता न पिता न बन्धुर्नैवान्नसिद्धिर्न तथान्नमस्ति । तत्तृप्तयेऽन्नं भुवि दत्तमेव ते यान्तु तृप्तिं मुदिता भवन्तु
भूतानि सर्वाणि तथान्नमेतदहं च विष्णुर्न यतोऽन्यदस्ति । तस्मादहं भूतनिकायभूतमन्नं प्रयच्छामि भवाय तेषाम्
चतुर्दशो भूतगणो य एषः तत्र स्थिता येऽखिलभूतसङ्घाः । तृप्त्यर्थमन्नं हि मया निसृष्टं तेषामिदं ते मुदिता भवन्तु
इत्युच्चार्य नरो दद्यादन्नं श्रद्धासमन्वितः । भुवि सर्वोपकाराय गृही सर्वाश्रयो यतः
श्वचण्डालविहङ्गानां भुवि दद्यान्नरेश्वर । ये चान्ये पतिताः केचिदपुत्राः सन्ति मानवाः
ततो गोदोहमात्रं वै कालं तिष्ठेद्गृहाङ्गणे । अतिथिग्रहणार्थाय तदूर्ध्वं तु यथेच्छया