एवं छत्रशलाकानां पृथगूभागो विमृश्यताम् । क्व यातं छत्रमित्येष न्यायस्त्वयि तथा मयि
पुमान् स्त्री गौरजो वाजी कुञ्जरो विहगस्तरुः । देहेषु लोकसंज्ञयं विज्ञया कर्म्महेतुषु
पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिबेदास्तु भूपैते कर्म्मयोनयः
वस्तु राजेति यल्लोके यच्च राजभटात्मकम् । तथान्यज्व नृपेत्थं तन्न सत्सङ्कल्पनामयम्
यत्तु कालान्तरेणापि नान्यां संज्ञामुपैति वै । परिणामादिसम्भूतां तदूस्तु नृप! तज्व किम्
त्वं राजा सर्व्वलोकस्य पितुः पुत्रो रिपो रिपुः । पत्न्याः पतिः पिता सूनोः किं त्वा भूप ! वदाम्यहम्
त्वं किमेतच्छिरः किं नु ग्रीवा तव तथोदरम् । किमु पादादिकं त्वं वा तवैतत् किं महीपते
समस्तावयवेभ्यस्त्वं पृथग् भूप ! व्यवस्थितः । कोऽहमित्यत्र निपुणो भूत्वा चिन्तय पार्थिव
एवं व्यवस्थिते तत्त्वे मयाहमिति भाषितुम् । पथक् करणनिष्पाद्य शक्यते नपते! कथम्
श्रीपराशर उवाच निशम्य तस्येति वचः परमार्थसमन्वितम् । प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥ २,१४.
राजोवाच भगवन्यत्त्वया प्रोक्तं परमार्थमयं वचः । श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः ॥ २,१४.
एतद्विवेकविज्ञानं यदशेषेषु जन्तुषु । भवता दर्शितं विप्र तत्परं प्रकृतेर्महत् ॥ २,१४.
नाहं वहामि शिबिकां शिबिका न मयि स्थिता । शरीरमन्यदस्मत्तो येनेयं शिबिका धृता ॥ २,१४.
गुणप्रवृत्त्या भूतानां प्रवृत्तिः कर्मचोदिता । प्रवर्तन्ते गुणा ह्येते किं ममेति त्वयोदितम् ॥ २,१४.
एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते । मनो विह्वलतामेति परमार्थार्थितां गतम् ॥ २,१४.
पूर्वमेव महाभागं कपिलर्षिमहं द्विज । प्रष्टुमभ्युद्यतो गत्वा श्रेयः किं त्वत्र शंस मे ॥ २,१४.
तदन्तरे च भवता यदेतद्वाक्यमीरितम् । तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥ २,१४.
कपिलर्षिर्भगवतः सर्वभूतस्य वै द्विज । विष्णोरंशो जगन्मोहनाशायोर्वीमुपागतः ॥ २,१४.
स एव भगवान्नूनमस्माकं हितकाम्यया । प्रत्यक्षतामत्र गतो यथैतद्भावतोच्यते ॥ २,१४.
तन्मह्यं प्रणताय त्वं यच्छ्रेयः परमं द्विजः । तद्वदाखिल विज्ञानजलवीच्युदधिर्भवान् ॥ २,१४.
ब्राह्मण उवाच भूप पृच्छसि किं श्रेयः परमार्थं नु पृच्छसि । श्रेयांस्यपरमार्थानि अशेषाणि च भूपते ॥ २,१४.
देवताराधनं कृत्वा धनसम्पदमिच्छति । पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ॥ २,१४.
कर्म यज्ञात्मकं श्रेयः फलं तत्प्राप्तिलक्षणम् । श्रेयः प्रधानं च फले तदेवानभिसंहिते ॥ २,१४.
आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परम् । श्रेयस्तस्यैव संयोगः श्रेयो यः परमात्मनः ॥ २,१४.
श्रेयांस्येवमनेकानि शतशोय सहस्रसः । सन्त्यत्र परमार्थस्तु न त्वेते श्रूयतां च मे ॥ २,१४.
धर्माय त्यज्यते किन्तु परमार्थो धनं यदि । व्ययश्च क्रियते कस्मात्कामप्राप्त्युपलक्षणः ॥ २,१४.
पुत्रश्चेत्परमार्थः स्यात्सोऽप्यन्यस्य नरेश्वर । परमार्थभूतः सोन्यस्य परमार्थो हि तत्पिता ॥ २,१४.
एवं न परमार्थोस्ति जगत्यस्मिञ्चराचरे । परमार्थो हि कार्याणि कारणानामशेषतः ॥ २,१४.
राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि । परमार्था भवन्त्यत्र न भवन्ति च वै ततः ॥ २,१४.
ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव । परमार्थभूतं तत्रापि श्रूयतां गदतो मम ॥ २,१४.