भूमौ पादयुगस्यास्था जह्घ पाददूये स्थिते । ऊरू जङ्घादूयावस्थौ तदाधारं तथोदरम्
वक्षः स्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ । स्कन्धाश्रितेयं शिबिका मम भारोऽत्र किकृतः
शिबिकायां स्थितं चेदं वपुस्त्वदुपलक्षितम् । तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा
अहं त्वञ्च तथान्ये च भूतैरुह्माम पार्थिव । गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम्
कर्मवश्या गुणाश्चैते सत्त्वाद्या- पृथिवीपते ! अविद्यासञ्चितं कर्म्म तज्वाशेषेषु जन्तुषु
आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः । प्रवृद्धयपचयौ नास्य एकस्याखिलजन्तुषु
यदा नोपचयस्तस्य न चैवापचये नृप! तदा पीवानसीतीत्थं कया युत्तया त्वयेरितम्
भू-पाद-जङ्घा-क्ठ्यूरु-जठरादिषु संस्थिते । शिबिकेयं यता स्कन्धे तथा भारः समस्त्वया
तदान्यैर्जन्तुभर्भूप ! शिबिकोढा न केवलम् । लै-द्रुम-गृहोत्थोऽपि पृथिवीसम्भवोऽपि वा
यदा पुसः पृथग्भावः प्राकृतैः कारणौर्नृप ! सोढव्यस्तु तदायासः कथं वा नृपते । मया
यदूद्रव्या शिबिका चेयं तदूद्रव्यो भूतसंग्रहः । भवतो मेऽखिलस्यास्य ममत्वेनोपबृ हितः
एवमुक्त्वाभवन्मैनी स वहञ्छिबिकां द्रिज ! सोऽपि राजावतीर्य्योर्व्यं तत्पादौ जगृहे त्वरन्
भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्रिज! कथ्यतां को भवानत्र जालमरूपधरः स्थितः
यो भवान् यन्निमित्तं वा यदागमनकारण्म् । तत्सर्वं कथ्यतां विदून् ! मह्म शुश्रूषवे त्वया
श्रूयतां कोऽहमित्येतदूक्तुं भूप! न शक्यते । उपभोगनिमित्तञ्च सर्वत्र गमनक्रिया
सुखदुः खोपभोगौ तु तौ देहाद्यु पपादकौ । धर्माधर्मोद्भवौ भोक्तु जन्तुर्देहादिमृच्छति
सर्वस्यैव हि बूपाल ! जन्तोः सर्वत्र कारणम् । धर्माधर्मौ यतः कस्मात् कारणां पृच्छयते त्वया
धर्माधमां न सन्देहः सर्वकार्य्येषु कारणम् । उपभोगनिमित्तञ्च देहाद्द हान्तरागमः
यत्त्वैतद भवता प्रोक्त कोऽहमित्येतदात्मनः । वक्तु न शक्यते श्रोतु तन्ममेच्छा प्रवर्त्तते
योऽस्ति सोऽहमिति ब्रह्मन्! कथं वक्तुं न शक्यते । आत्मन्येष न दोषाय शब्दोऽहमिति यो द्रिज
शब्दोऽहमिति दोषाय आत्मन्येष तथैव तत् । अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणाः
जिह्वा ब्रवीत्यहमिति दन्तोष्ठौ तालुक नृप! एते नाहं यतः सर्वे वाङूनिष्पादनहेतवः
किंहेतुभिर्वदत्येषा वागेवाहमिति स्वयम् । तथापि वाग् नाहमेतद् वक्तु मित्थं न युज्यते
पिण्डः पृथग् यतः पुसः शिरः पाण्यादिलक्षणाः । ततोऽहमिति कुत्रैतां संज्ञां राजन्! करोम्यहम्
यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिवसत्तम ! तदैषोऽहमयञ्चान्यो वक्तुमेवमपीष्यते
यदा समस्तदेहेषु पुमानेको व्यवस्थितः । तदा हि को भवान् कोऽहमित्येतद् विफलं वचः
त्वं राजा शिबिका चेयमिमे वाहाः पुरः सराः । अयञ्च भवतो लोको न सदेतन्नृपोच्यते
वृक्षदू दारु ततश्चैयं शिबिका त्वदधिष्ठिता । किं वृक्षसंज्ञा वास्याः स्याद्दारुसंज्ञाथवा नृप
वृक्षारूढो महाराजो नायं वदति ते जनः । न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम्
शिबिका दारुसङ्गातो रचनास्थितिसंस्थितः । आन्वष्यतां नृपश्वेष्ठ! तद्भदे शिबिका त्वया