गृहीतो विष्टिना विप्रः सर्वज्ञानैकभाजनम् । जातिस्मणेऽसौ पापस्य क्षयकाम उवाह ताम्
ययौ जड़गतिः सोऽथ युगमात्रवलोकनः । कुर्वन् मतिमतां श्रेष्ठस्तदन्ये त्वरितं ययुः
विलोक्य नृपतिः सोऽथ विषमां शिबिकागतिम् । किमेतदित्याह समं गम्यतां शिबिकावहाः
पुनस्तथैव शिबिकां विलोक्य विषमां हि सः । नृपः किमेतदित्याह भवद भिर्गम्यतेऽन्यथा
भूपतेर्वदतस्तस्य श्रुत्वेत्थं बहुशो वचः । शिबिकावाहकाः प्रोचुरयं यातीत्यसत्वरम्
किं श्रान्तोऽस्यल्पमद्वानं त्वयोढा शिहिका मम । किमायाससहो न त्वं पीनानसि निरीक्ष्यसे
नाहं पीवान्न चैवोढा शिबिका भवतो मया । न श्रान्तोऽस्मि न चायासः सोञव्योऽस्ति महीपते
प्रत्यक्षं दृश्यसे पीवानद्यांपि शिबिका त्वयि । श्रमश्व भारोदूहने भवत्येव हि देहिनाम्
प्रत्यक्ष भवता भूप ! यदू दृष्ट मम तदूद । बलवानबलश्चेति वाच्यं पश्वादू विशेषणम्
त्वयोढ़ा शिबिका चेति त्वय्यद्यापि च संस्थिता । मिथ्यैतदत्र तु भवाञ्छृणोतु वचनं मम
भूमौ पादयुगस्यास्था जह्घ पाददूये स्थिते । ऊरू जङ्घादूयावस्थौ तदाधारं तथोदरम्
वक्षः स्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ । स्कन्धाश्रितेयं शिबिका मम भारोऽत्र किकृतः
शिबिकायां स्थितं चेदं वपुस्त्वदुपलक्षितम् । तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा
अहं त्वञ्च तथान्ये च भूतैरुह्माम पार्थिव । गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम्
कर्मवश्या गुणाश्चैते सत्त्वाद्या- पृथिवीपते ! अविद्यासञ्चितं कर्म्म तज्वाशेषेषु जन्तुषु
आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः । प्रवृद्धयपचयौ नास्य एकस्याखिलजन्तुषु
यदा नोपचयस्तस्य न चैवापचये नृप! तदा पीवानसीतीत्थं कया युत्तया त्वयेरितम्
भू-पाद-जङ्घा-क्ठ्यूरु-जठरादिषु संस्थिते । शिबिकेयं यता स्कन्धे तथा भारः समस्त्वया
तदान्यैर्जन्तुभर्भूप ! शिबिकोढा न केवलम् । लै-द्रुम-गृहोत्थोऽपि पृथिवीसम्भवोऽपि वा
यदा पुसः पृथग्भावः प्राकृतैः कारणौर्नृप ! सोढव्यस्तु तदायासः कथं वा नृपते । मया
यदूद्रव्या शिबिका चेयं तदूद्रव्यो भूतसंग्रहः । भवतो मेऽखिलस्यास्य ममत्वेनोपबृ हितः
एवमुक्त्वाभवन्मैनी स वहञ्छिबिकां द्रिज ! सोऽपि राजावतीर्य्योर्व्यं तत्पादौ जगृहे त्वरन्
भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्रिज! कथ्यतां को भवानत्र जालमरूपधरः स्थितः
यो भवान् यन्निमित्तं वा यदागमनकारण्म् । तत्सर्वं कथ्यतां विदून् ! मह्म शुश्रूषवे त्वया
श्रूयतां कोऽहमित्येतदूक्तुं भूप! न शक्यते । उपभोगनिमित्तञ्च सर्वत्र गमनक्रिया
सुखदुः खोपभोगौ तु तौ देहाद्यु पपादकौ । धर्माधर्मोद्भवौ भोक्तु जन्तुर्देहादिमृच्छति
सर्वस्यैव हि बूपाल ! जन्तोः सर्वत्र कारणम् । धर्माधर्मौ यतः कस्मात् कारणां पृच्छयते त्वया
धर्माधमां न सन्देहः सर्वकार्य्येषु कारणम् । उपभोगनिमित्तञ्च देहाद्द हान्तरागमः
यत्त्वैतद भवता प्रोक्त कोऽहमित्येतदात्मनः । वक्तु न शक्यते श्रोतु तन्ममेच्छा प्रवर्त्तते
योऽस्ति सोऽहमिति ब्रह्मन्! कथं वक्तुं न शक्यते । आत्मन्येष न दोषाय शब्दोऽहमिति यो द्रिज