विषाणाग्रण मदूबाहुकण्डूयनपरो हि सः । क्षेमेणाभ्यागतोऽरण्यादिपि मां सुखयिष्यति
एते लूनशिखास्तस्य दशनैरचिरोदूगतैः । कुशाः कासा विराजन्ते वटवः सामगा इव
इत्थं चिरगते तस्मिन् स चक्र मानसं मुनिः । प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे
समाधिभङ्गस्तासीत् तन्ममत्वादृतात्मनः । सन्त्यक्तराज्यभोगर्द्धिखजनस्यापि भूपतेः
चपलं चपले तस्मिन् दूरगं दूरगामिनि । मृगपतोऽभवज्वित्तं स्थैर्य्यवत्तस्य भूपतेः
कालेन गच्छता सोऽथ कालञ्चक्र महीपतिः । पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः
मृगमेव तदाद्राक्षीत् त्यजन् प्राणानसावपि । तन्मयत्वेन मैत्रय! नान्यत् किञ्चिदचिन्तयत्
ततश्व तत्कालकृतां भावनां प्राप्य तादृशीम् । जम्बूमार्गे महारण्ये जातो जातिस्मरो मृगः
जातिस्मरत्वादुद्रिग्नः संसारस्य द्रिजोत्तम! विहाय मातरं भूयः शालग्राममुपाययौ
शुष्कैस्तृणैस्तथा पर्णौः स कुर्व्वन्नात्मपोषणम् । मृगत्वहतुभूतस्य कर्म्मणो निष्कृतिं ययौ
तत्र चोतसृष्टदेहोऽसौ जज्ञ जातिस्मरो द्रिजः । सदाचारवतां शुद्ध योगिनां प्रवरे कुले
अर्व्वविज्ञानसम्पन्नः सर्व्वशास्त्रार्थतत्त्ववित् । अपश्यत् स च मैत्रेय ! आत्मानं प्रकृतेः परम्
आत्मनोऽधिगतज्ञानो देवादीनि महामुने । सर्व्वभूतान्यभेदेन स ददर्श महामतिः
न पपाठ गुरुप्रोक्तं कृतोपनयनः श्वुतिम् । न ददर्श च कर्माणि शास्त्रणि जगृहे न च
उक्तोऽपि बहुशः किञ्चिड़वाक्यमभाषत । तदप्यसंस्कारगुणां ग्राम्यवाक्योक्तिसंश्रितम्
अपध्वस्तवपुः सोऽपि मलिनाम्बरधृग् द्रिजः । क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः
सम्मानना परां हानिं योगर्द्धेः कुरुते यतः । जनेनावमतो योगी योगसिद्धिञ्च विन्दति
तस्माज्वरेत वै योगी सतां मार्गमदूषयन् । जना यथावमन्येरन् गच्छयुर्नैव सङ्गतिम्
हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः । आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने
भुहूक्ते कुलम्षव्रीह्मादिशाकं वन्यं फलं कणान् । यदू यदाप्रोति सुबहु तदत्ते कालसंयमम्
पितर्युपरते सोऽथ भ्रातृ-भ्रातृव्य-बान्धवैः । कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः
स तूक्षपीनावयवो जद़कारी च कर्मणि । सर्वलोकोपकरणां बभूवाहारवेतनः
[तं तादृशमसंस्कारं विप्राकृविचेष्टितम् । क्षत्ता पृषतराजस्य काल्यै पशुमकल्पयत्
रात्रौ तं समलङकृत्य वैशसस्य विधानतः । अधिष्ठितं महाकाली ज्ञात्वा योगेश्वरं तथा
ततः खड गं समादाय निशितं निशि सा तथा । क्षत्तार क्रूरकर्माणमच्छिनत् कण्ठमूलतः । स्वपार्षदयुता देवी पपौ रुधिरमुल्वणम्
ततः सौवीरराजस्य प्रयातस्य महात्मनः । विष्टिकर्ताथ मन्येत विष्टियोग्योऽयमित्यपि
तं तादृशं महात्मानं भस्मच्छन्नमिवानलम् ।]* *[ एतदाकारबन्धनीदूयान्तर्गतबागः सर्वत्र पुस्तके न दृश्यते । श्रीधरेणाप्यस्य व्याख्या न कृता, अतः सर्वसम्मति शून्यत्वादयं बागो बन्धनीदूयगर्मै स्थापितः ।] तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् । क्षत्ता सौवीरराजस्य विष्टियोग्यममन्यत
स राजा शिविकारूढो गन्तूं कृतमतिर्द्रिज ! बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम्
श्रेयः किमत्र संसारे दुः खप्राये नृणामिति । प्रष्टुं तं मोक्षधर्मज्ञ कपिलाख्यं महामुनिम्
उवाह शिविकां तस्य क्षत्तुर्वचनचोदितः । नृणां विष्टिगृहीतानामन्येषां सोऽपि मध्यगः