तमुह्ममानं वेगेन वीचिमालापरिप्लुतम् । तजग्राह स नृपो गर्भात् पतितं मृगपोतकम्
गर्भप्रव्युतिदोषेण प्रोत्तुङ्गाक्रमणोन च । मैत्रेय! सापि हरिणी पपात च ममार च
हरिणीं तां विलोक्याथ विपन्नां नृपतापसः । मृगपोतं समादाय निजमाश्वममागतः
चकारानुदिनञ्चासौ मृगपोतस्यवै नृपः । पोषण पुष्यमाणश्य स तेन वबृधे मुने
चचाराश्रमपर्य्यन्तं तृणानि गहनेषु सः । दूरं गत्वा च शाद्दूलत्रासादभ्याययौ पुनः
प्रातर्गत्वातिदूरञ्च सायमायाद यथाश्वमम् । पुनश्च भरतस्याभूदाश्वमस्योटजाजिरे
तस्य तस्मिन्मृगे दूर-समीपपरिवर्त्तिनि । आसीच्चेतः समायुक्तं न ययावन्यतो द्रिज
विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः । ममत्वं स चकारोच्चैस्तस्मिन् हरिणबालके
किं वृकैक्भक्षितो व्याघूः किं सिंहेन निपातितः । चिरायमाणे निष्कान्ते तस्यासीदिति मानसम्
एषा वसुमती तस्य खुराग्रक्षतकर्बुरा । प्रीतये मम जातोऽसौ क्व ममैणकबालकः
विषाणाग्रण मदूबाहुकण्डूयनपरो हि सः । क्षेमेणाभ्यागतोऽरण्यादिपि मां सुखयिष्यति
एते लूनशिखास्तस्य दशनैरचिरोदूगतैः । कुशाः कासा विराजन्ते वटवः सामगा इव
इत्थं चिरगते तस्मिन् स चक्र मानसं मुनिः । प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे
समाधिभङ्गस्तासीत् तन्ममत्वादृतात्मनः । सन्त्यक्तराज्यभोगर्द्धिखजनस्यापि भूपतेः
चपलं चपले तस्मिन् दूरगं दूरगामिनि । मृगपतोऽभवज्वित्तं स्थैर्य्यवत्तस्य भूपतेः
कालेन गच्छता सोऽथ कालञ्चक्र महीपतिः । पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः
मृगमेव तदाद्राक्षीत् त्यजन् प्राणानसावपि । तन्मयत्वेन मैत्रय! नान्यत् किञ्चिदचिन्तयत्
ततश्व तत्कालकृतां भावनां प्राप्य तादृशीम् । जम्बूमार्गे महारण्ये जातो जातिस्मरो मृगः
जातिस्मरत्वादुद्रिग्नः संसारस्य द्रिजोत्तम! विहाय मातरं भूयः शालग्राममुपाययौ
शुष्कैस्तृणैस्तथा पर्णौः स कुर्व्वन्नात्मपोषणम् । मृगत्वहतुभूतस्य कर्म्मणो निष्कृतिं ययौ
तत्र चोतसृष्टदेहोऽसौ जज्ञ जातिस्मरो द्रिजः । सदाचारवतां शुद्ध योगिनां प्रवरे कुले
अर्व्वविज्ञानसम्पन्नः सर्व्वशास्त्रार्थतत्त्ववित् । अपश्यत् स च मैत्रेय ! आत्मानं प्रकृतेः परम्
आत्मनोऽधिगतज्ञानो देवादीनि महामुने । सर्व्वभूतान्यभेदेन स ददर्श महामतिः
न पपाठ गुरुप्रोक्तं कृतोपनयनः श्वुतिम् । न ददर्श च कर्माणि शास्त्रणि जगृहे न च
उक्तोऽपि बहुशः किञ्चिड़वाक्यमभाषत । तदप्यसंस्कारगुणां ग्राम्यवाक्योक्तिसंश्रितम्
अपध्वस्तवपुः सोऽपि मलिनाम्बरधृग् द्रिजः । क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः
सम्मानना परां हानिं योगर्द्धेः कुरुते यतः । जनेनावमतो योगी योगसिद्धिञ्च विन्दति
तस्माज्वरेत वै योगी सतां मार्गमदूषयन् । जना यथावमन्येरन् गच्छयुर्नैव सङ्गतिम्
हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः । आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने
भुहूक्ते कुलम्षव्रीह्मादिशाकं वन्यं फलं कणान् । यदू यदाप्रोति सुबहु तदत्ते कालसंयमम्