अणुप्राण्युपपन्नां च हलोत्खातां च पार्थिव । परित्यजेन्मृदो ह्येतास्सकलाश्शौचकर्मणि
एका लिंगे गुदे तिस्रो दश वामकरे नृप । हस्तद्वये च सप्त स्युर्मृदश्शौचोपपादिकाः
अच्छेनागन्धलेपेन जलेनाबुद्बुदेन च । आचामेच्च मृदं भूयस्तथा दद्यात् समाहितः
निष्पादिताङ्घ्रिशौचस्तु पादावभ्युक्ष्य वै पुनः । त्रिः पिबेत्सलिलं तेन तथा द्विः परिमार्जयेत्
शीर्षण्यानि ततः खानि मूर्द्धानं च समालभेत् । बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत्
आचांतस्तु ततः कुर्यात् पुमान् केशप्रसाधनम् । आदर्शाञ्जनमाङ्गल्यं दूर्वाद्यालम्भनानि च
ततस्स्ववर्णधर्मेण वृत्त्यर्थं च धनार्जनम् । कुर्वीत श्रद्धासंपन्नो यजेच्च पृथिवीपते
सोमसंस्था हविस्संस्थाः पाकसंस्थास्तु संस्थिताः । धने यतो मनुष्याणां यतेतातो धनार्जने
नदीनदतटाकेषु देवखातजलेषु च । नित्यक्रियार्थं स्नायीत गिरिप्रस्रवणेषु च
कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि । गृहेषूद्धृततोयेन ह्यथवा भुव्यसम्भवे
शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् । तेषामेव हि तीर्थेन कुर्वीत सुसमाहितः
त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत् । ऋषीणां च यथान्यायं सकृच्चापि प्रजापतेः
पितॄणां प्रीणनार्थाय तदपः पृथिवीपते । पितामहेभ्यश्च तथा प्रीणयेत्प्रपितामहान्
मातामहाय तत्पित्रे तत्पित्रे च समाहितः । दद्यात्पैत्रेण तीर्थेन काम्यं चान्यच्छृणुष्व मे
मात्रे प्रमात्रे तन्मात्रे गुरुपत्न्यै तथा नृप । गुरूणां मातुलानां च स्निग्धमित्राय भूभुजे
इदं चापि जपेदम्बु दद्यादात्मेच्छया नृप । उपकाराय भूतानां कृतदेवादितर्पणम्
देवासुरास्तथा यक्षा नागगन्धर्वराक्षसाः । पिशाचा गुह्यकास्सिद्धाः कूष्माण्डाः पशवः खगाः
जलेचरा भूनिलया वाय्वाहाराश्च जन्तवः । तृप्तिमेतेन यान्त्याशु मद्दत्तेनाम्बुनाऽखिलाः
नरकेषु समस्तेषु यातनासु च संस्थिताः । तेषामाप्यायनायैतद्दीयते सलिलं मया
ये बान्धवा बान्धवा ये येऽन्यजन्मनि बान्धवाः । ते तृप्तिमखिला यान्तु ये चास्मत्तोयकाङ्क्षिणः
यत्र क्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् । इदमाप्यायनायास्तु मया दत्तं तिलोदकम्
काम्योदकप्रदानं ते मयैतत्कथितं नृप । यद्दत्त्वा प्रीणयत्येतन्मनुष्यस्सकलं जगत् । जगदाप्यायनोद्भूतं पुण्यमाप्नोति चानघ
दत्त्वा काम्योदकं सम्यगेतेभ्यः श्राद्धयान्वितः । आचम्य च ततो दद्यात्सूर्याय सलिलांजलिम्
नमो विवस्वते ब्रह्मभास्वते विष्णुतेजसे । जगत्सवित्रे शुचये सवित्रे कर्मसाक्षिणे
ततो गृहाऽर्चनं कुर्यादभीष्टसुरपूजनम् । जलाभिषेकैः पुष्पैश्च धूपाद्यैश्च निवेदनम्
अपूर्वमग्निहोत्रं च कुर्यात्प्राग्ब्रह्मणे नृप
प्रजापतिं समुद्दिश्य दद्यादाहुतिमादरात् । गृहेभ्यः काश्यपायाथ ततोनुमतये क्रमात्
तच्छेषं मणिके पृथ्वीपर्जन्येभ्यः क्षिपेत्ततः । द्वारे धातुर्विधातुश्च मध्ये च ब्रह्मणे क्षिपेत्
गृहस्य पुरषव्याघ्र दिग्देवानपि मे शृणु
इंद्रा य धर्मराजाय वरुणाय तथेंदवे । प्राच्यादिषु बुधो दद्याद्धुतश्षोआ!त्मकं बलिम्