शिश्नः संवत्सरस्तस्य मित्रोऽपानं समाश्रितः
पुच्छेग्निश्च महेन्द्र श्च कश्यपोथ ततो ध्रुवः । तारका शिशुमारस्य नास्तमेति चतुष्टयम्
इत्येष सन्निवेशोऽयं पृथिव्या ज्योतिषां तथा । द्वीपानामुदधीनां च पर्वतानां च कीर्तितः
वर्षाणां च नदीनां च ये च तेषु वसन्ति वै । तेषां स्वरूपमाख्यातं संक्षेपः श्रूयतां पुनः
यदम्बु वैष्णवः कायस्ततो विप्र वसुन्धरा । पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता
ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च । नद्यः समुद्रा श्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य
ज्ञानस्वरूपो भगवान्यतोसावश्षोमूर्त्तिर्न तु वस्तुभूतः । ततो हि शैलाब्धिधरादिभेदाञ्जानीहि विज्ञानविजृम्भितानि
यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानमपास्तदोषम् । तदा हि संकल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः
वस्त्वस्ति किं कुत्रचिदादिमध्यपर्यन्तहीनं सततैकरूपम् । यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम्
मही घटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततोऽणुः । जनैः स्वकर्मस्तिमितात्मनिश्चयैरालक्ष्यते ब्रूहि किमत्र वस्तु
तस्मान्न विज्ञानमृतेस्ति किंचित्क्वचित्कदाचिद्द्विज वस्तुजातम् ।। विज्ञानमेकं निजकर्मभेदविभिन्नचित्तेर्बहुधाभ्युपेतम्
ज्ञानं विशुद्धं विमलं विशो कमश्षोलोभादिनिरस्तसङ्गम् । एकं सदैकं परमः परेशः स वासुदेवो न यतोन्यदस्ति
सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् । एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते
यज्ञः पशुर्वह्निरश्षोऋत्विक्सोमः सुराः स्वर्गमयश्च कामः । इत्यादिकर्माश्रितमार्गदृष्टं भूरादिभोगाश्च फलानि तेषाम्
यच्चैतद्भुवनगतं मया तवोक्तं सर्वत्र व्रजति हि तत्र कर्मवश्यः । ज्ञात्वैवं ध्रुवमचलं सदैकरूपं तत्कुर्याद्विशति हि येन वासुदेवम्
श्रीमैत्रेय उवाच । भगवन् ! सम्यगाख्यातं यत् पृष्टोऽसि मयाखलम् । भूसमुद्रादिसरितां संस्थानं ग्रहसंस्थितिम्
विष्णवाधारं तथा चैतत् त्रैलोक्यं समवस्थितम् । परमार्थस्तु तेनोक्तो यथाज्ञानं प्रधानतः
यत्त्वोतद्भगवानाह भरतस्य महीपतेः । कथयिष्यामि चरितं तन्माख्यातुमर्हसि
भरतः स महीपालः शालग्रामेऽवसत् किल योगयुक्तः समाधाय वासुदेवे सदा मनः
पुण्यदेशप्रभावेण ध्यायतश्व सदा हरिम् । कथन्तु नाभवन्मुक्तिर्यदभूत् स द्रिजः पुनः
विप्रत्वे च कृतं तेन यद्भूयःसुमहात्मना । भरतेन मुनिश्वेष्ठ! तत् सर्व्वं वक्तुमर्हसि
पराशार अवाच । शालग्रामे महाभागो भगवन्नयस्तमानसः । स उवास चिरं कालं मैत्रेय! पृथिवीपतिः
अहिंसादिष्वशेषेषु गुणेषु गुणिनां वरः । अवाप परमां काष्ठां मनसश्चापि संयमे
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ! कृष्णा विष्णो ह्टषीकेशेत्याह राजा स केवलम्
नान्यज्जागाद मैत्रेय! किञ्चित् स्वप्नान्तरेऽपि च । एततूपरं तदर्थञ्च विना नान्यदचिन्तयत्
समित्-पुष्प-कुशादानं चक्र देवक्रियाकृते । नान्यानि चक्र कर्म्माणि निः सङ्गो योगतापसः
जगाम सोऽबिषेकार्थमेकदा तु महानदीम् । सस्नौ तत्र तदा चक्र स्नानस्यनन्तरक्रियाः
अथातजगाम तत्तीर्थं जलं पात् पिपासिता । आसन्नप्रसवा ब्रह्मन्नेकैव हरिणी वनात्
ततः समभवत्तत्र पीतप्राय जले तया । सिंहस्य नादः सुमहान् सर्व्वप्राणिभयङ्करः
ततः सा सहसा त्रासादाप्लुता निम्नगातटम् । अत्युज्वारोहणेनास्या नद्यां गर्भः पपात सः