अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते । कल्पमेकं मुनिश्रेष्ठ वारीगर्भसमुद्भवाः
क्षीणं पीतं सुरैः सोममाप्याययति दीप्तिमान् । मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः
क्रमेण येन पीतोऽसौ देवैस्तेन निशाकरम् । आप्याययत्यनुदिनं भास्करो वारितस्करः
संभृतं चार्धमासेन तत्सोमस्थं सुधामृतम् । पिबन्ति देवा मैत्रेय सुधाहारा यतोऽमराः
त्रयास्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरम्
कलाद्वयावशिष्टस्तु प्रविष्टः सूर्यमण्डलम् । अमाख्यारश्मौ वसति अमावास्या ततः स्मृता
अप्सु तस्मिन्नहोरात्रे पूर्वं विशति चंद्रमाः । ततो वीरुत्सु वसति प्रयात्यर्कं ततः क्रमात्
छिनत्ति वीरुधो यस्तु वीरुत्संस्थे निशाकरे । पत्रं वा पातयत्येकं ब्रह्महत्यां स विन्दति
सोमं पञ्चदशे भागे किंचिच्छिष्टे कलात्मके । अपराह्णे पितृगणा जघन्यं पर्युपासते
पिबन्ति द्विकलाकारं शिष्टा तस्य कला तु या । सुधामृतमयी पुण्या तामिन्दोः पितरो मुने
निस्सृतं तदमावास्यां गभस्तिभ्यः सुधामृतम् । मासं तृप्तिमवाप्याग्र्यां पितरः सन्ति निर्वृताः । सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा
एवं देवान् सिते पक्षे कृष्णपक्षे तथा पितॄन् । वीरुधश्चामृतमयैः शीतैरप्परमाणुभिः
वीरुधौषधिनिष्पत्त्या मनुष्यपशुकीटकान् । आप्याययति शीतांशुः प्राकाश्याह्लादनेन तु
वाय्वग्निद्रव्यसंभूतो रथश्चन्द्र सुतस्य च । पिशंगैस्तुरगैर्युक्तः सोष्टाभिर्वायुवेगिभिः
सवरूथः सानुकर्षो युक्तो भूसंभवैर्हयैः । सोपासंगपताकस्तु शुक्रस्यापि रथो महान्
अष्टाश्वः काञ्चनः श्रीमान्भौमस्यापि रथो महान् । पद्मरागारुणैरश्वैः संयुक्तो वह्निसम्भवैः
अष्टाभिः पांडुरैर्युक्तो वाजिभिः कांचनो रथः । तस्मिंस्तिष्ठति वर्षान्ते राशौराशौ बृहस्पतिः
आकाशसम्भवैरश्वैः शबलैः स्यन्दनं युतम् । तमारुह्य शनैर्याति मन्दगामीशनैश्चरः
स्वर्भानोस्तुरगा ह्यष्टौ भृंगाभा धूसरं रथम् । सकृद्युक्तास्तु मैत्रेय वहन्त्यविरतं सदा
आदित्यान्निस्सृतो राहुः सोमं गच्छति पर्वसु । आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु
तथा केतुरथस्याश्वा अप्यष्टौ वातरंहसः । पलालधूमवर्णाभा लाक्षारसनिभारुणाः
एते मया ग्रहाणां वै तवाख्याता रथा नव । सर्वे ध्रुवे महाभाग प्रबद्धा वायुरश्मिभिः
ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्यश्षोतः । भ्रमन्त्युचितचारेण मैत्रेयानिलरश्मिभिः
यावान्त्यश्चैव तारास्ता तावन्तो वातरश्मयः । सर्वे ध्रुवे निबद्धास्ते भ्रमन्तो भ्रामयन्ति तम्
तैलपीडा यथा चक्रं भ्रमन्तो भ्रामयन्ति वै । तथा भ्रमन्ति ज्योतींषि वातविद्धानि सर्वशः
अलातचक्रवद्यान्ति वातचक्रेरितानि तु । यस्माज्योतींषि वहति प्रवहस्तेन स स्मृतः
शिशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति । सन्निवेशं च तस्यापि शृणुष्व मुनिसत्तम
यदह्ना कुरुते पापं तं दृष्ट्वा निशि मुच्यते । यावन्त्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि । तावन्त्येव तु वर्षाणि जीवत्यभ्यधिकानि च
उत्तानपादस्तस्याधो विज्ञेयो ह्युत्तरो हनुः । यज्ञोऽधरश्च विज्ञेयो धर्मो मूर्द्धानमाश्रितः
हृदि नारायणश्चास्ते अश्विनौ पूर्वपादयोः । वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी