उभयं पुण्यमत्यर्थं नृणां पापभयापहम् । आकाशगङ्गासलिलं दिव्यं स्नानं महामुने ॥ २,९.
यत्तु मैघैः समुत्सृष्टं वारि तत्प्राणिनां द्विज । पुष्णात्यौषधयः सर्वा जीवनायामृतं हि तत् ॥ २,९.
तेन वृद्धिं परां नीतः सकलश्चौषधीगणः । साधकः फलपाकन्तः प्रजानां द्विज जायते ॥ २,९.
तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः । कुर्वन्त्यहरहस्तैश्च देवानाप्याययन्तिते ॥ २,९.
एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः । सर्वे देवनिकायाश्च सर्वे भूतगणाश्च ये ॥ २,९.
वृष्ट्या धृतमिदं सर्वमन्नं निष्पाद्यते यया । सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम ॥ २,९.
आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तम । ध्रुवस्य शिशुपारोऽसौ सोऽपि नारायणात्मकः ॥ २,९.
हृदि नारायणस्तस्य शिशुमारस्यं संस्थितः । बिभर्ता सर्वभूतानामादिभूतः सनातनः ॥ २,९.
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन चरत्यसौ
वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिना । ह्रासवृद्धिक्रमस्तस्य रश्मीनां सवितुर्यथा
अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते । कल्पमेकं मुनिश्रेष्ठ वारीगर्भसमुद्भवाः
क्षीणं पीतं सुरैः सोममाप्याययति दीप्तिमान् । मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः
क्रमेण येन पीतोऽसौ देवैस्तेन निशाकरम् । आप्याययत्यनुदिनं भास्करो वारितस्करः
संभृतं चार्धमासेन तत्सोमस्थं सुधामृतम् । पिबन्ति देवा मैत्रेय सुधाहारा यतोऽमराः
त्रयास्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरम्
कलाद्वयावशिष्टस्तु प्रविष्टः सूर्यमण्डलम् । अमाख्यारश्मौ वसति अमावास्या ततः स्मृता
अप्सु तस्मिन्नहोरात्रे पूर्वं विशति चंद्रमाः । ततो वीरुत्सु वसति प्रयात्यर्कं ततः क्रमात्
छिनत्ति वीरुधो यस्तु वीरुत्संस्थे निशाकरे । पत्रं वा पातयत्येकं ब्रह्महत्यां स विन्दति
सोमं पञ्चदशे भागे किंचिच्छिष्टे कलात्मके । अपराह्णे पितृगणा जघन्यं पर्युपासते
पिबन्ति द्विकलाकारं शिष्टा तस्य कला तु या । सुधामृतमयी पुण्या तामिन्दोः पितरो मुने
निस्सृतं तदमावास्यां गभस्तिभ्यः सुधामृतम् । मासं तृप्तिमवाप्याग्र्यां पितरः सन्ति निर्वृताः । सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा
एवं देवान् सिते पक्षे कृष्णपक्षे तथा पितॄन् । वीरुधश्चामृतमयैः शीतैरप्परमाणुभिः
वीरुधौषधिनिष्पत्त्या मनुष्यपशुकीटकान् । आप्याययति शीतांशुः प्राकाश्याह्लादनेन तु
वाय्वग्निद्रव्यसंभूतो रथश्चन्द्र सुतस्य च । पिशंगैस्तुरगैर्युक्तः सोष्टाभिर्वायुवेगिभिः
सवरूथः सानुकर्षो युक्तो भूसंभवैर्हयैः । सोपासंगपताकस्तु शुक्रस्यापि रथो महान्
अष्टाश्वः काञ्चनः श्रीमान्भौमस्यापि रथो महान् । पद्मरागारुणैरश्वैः संयुक्तो वह्निसम्भवैः
अष्टाभिः पांडुरैर्युक्तो वाजिभिः कांचनो रथः । तस्मिंस्तिष्ठति वर्षान्ते राशौराशौ बृहस्पतिः
आकाशसम्भवैरश्वैः शबलैः स्यन्दनं युतम् । तमारुह्य शनैर्याति मन्दगामीशनैश्चरः
स्वर्भानोस्तुरगा ह्यष्टौ भृंगाभा धूसरं रथम् । सकृद्युक्तास्तु मैत्रेय वहन्त्यविरतं सदा
आदित्यान्निस्सृतो राहुः सोमं गच्छति पर्वसु । आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु