तदाधारं जगच्चेदं सदेवासुरमानुषम् ॥ २,९.
येन विप्रविधानेन तन्ममैकमनाः शृणु । विवस्वानष्टभिर्मासैरादायापो रसात्मिकाः । वर्षत्यम्बुततश्चान्नमन्नादप्यखिलं जगत् ॥ २,९.
विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम् । सोमं पुष्णात्यथेन्दुश्च वायुनाडीमयैर्दिवि । नालैर्विक्षिपतेऽभ्रेषु धूमाग्न्यनिलमूर्तिषु ॥ २,९.
न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः । अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः । संस्कारं कालजनितं मैत्रेयासाद्य निर्मलाः ॥ २,९.
सरित्समुद्रभौमास्तु तथापः प्राणिसम्भवाः । चतुष्प्रकारा भगवानादत्ते सविता मुने ॥ २,९.
आकाशगङ्गासलिलं तथादायगभस्तिमान् । अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ २,९.
तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तम । न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥ २,९.
दृष्टसूर्यं हि यद्वारि पतत्यभ्रैर्विना दिवः । आकाशगङ्गासलिलं तद्गोभिः क्षिप्यते रवेः ॥ २,९.
कृत्तिकादिषु ऋक्षेषु विषमेषु च यद्दिवः । दृष्टार्कपतितं ज्ञेयं तद्गाङ्गं दिग्गजोज्झितम् ॥ २,९.
युग्मर्क्षेषु च यत्तोयं पतत्यर्कोज्झितं दिवः । तत्सूर्यरश्मिभिः सर्वं समादाय निरस्यते ॥ २,९.
उभयं पुण्यमत्यर्थं नृणां पापभयापहम् । आकाशगङ्गासलिलं दिव्यं स्नानं महामुने ॥ २,९.
यत्तु मैघैः समुत्सृष्टं वारि तत्प्राणिनां द्विज । पुष्णात्यौषधयः सर्वा जीवनायामृतं हि तत् ॥ २,९.
तेन वृद्धिं परां नीतः सकलश्चौषधीगणः । साधकः फलपाकन्तः प्रजानां द्विज जायते ॥ २,९.
तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः । कुर्वन्त्यहरहस्तैश्च देवानाप्याययन्तिते ॥ २,९.
एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः । सर्वे देवनिकायाश्च सर्वे भूतगणाश्च ये ॥ २,९.
वृष्ट्या धृतमिदं सर्वमन्नं निष्पाद्यते यया । सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम ॥ २,९.
आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तम । ध्रुवस्य शिशुपारोऽसौ सोऽपि नारायणात्मकः ॥ २,९.
हृदि नारायणस्तस्य शिशुमारस्यं संस्थितः । बिभर्ता सर्वभूतानामादिभूतः सनातनः ॥ २,९.
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन चरत्यसौ
वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिना । ह्रासवृद्धिक्रमस्तस्य रश्मीनां सवितुर्यथा
अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते । कल्पमेकं मुनिश्रेष्ठ वारीगर्भसमुद्भवाः
क्षीणं पीतं सुरैः सोममाप्याययति दीप्तिमान् । मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः
क्रमेण येन पीतोऽसौ देवैस्तेन निशाकरम् । आप्याययत्यनुदिनं भास्करो वारितस्करः
संभृतं चार्धमासेन तत्सोमस्थं सुधामृतम् । पिबन्ति देवा मैत्रेय सुधाहारा यतोऽमराः
त्रयास्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरम्
कलाद्वयावशिष्टस्तु प्रविष्टः सूर्यमण्डलम् । अमाख्यारश्मौ वसति अमावास्या ततः स्मृता
अप्सु तस्मिन्नहोरात्रे पूर्वं विशति चंद्रमाः । ततो वीरुत्सु वसति प्रयात्यर्कं ततः क्रमात्
छिनत्ति वीरुधो यस्तु वीरुत्संस्थे निशाकरे । पत्रं वा पातयत्येकं ब्रह्महत्यां स विन्दति
सोमं पञ्चदशे भागे किंचिच्छिष्टे कलात्मके । अपराह्णे पितृगणा जघन्यं पर्युपासते
पिबन्ति द्विकलाकारं शिष्टा तस्य कला तु या । सुधामृतमयी पुण्या तामिन्दोः पितरो मुने