कृतकाकृतयोर्मध्ये महर्लोक इति स्मृतः । शून्यो भवति कल्पान्ते योत्यन्तं न विनश्यति
एते सप्त मया लोका मैत्रेय कथितास्तव । पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः
एतदण्डकटाहेन तिर्यक् चोर्ध्वमधस्तथा । कपित्थस्य यथा बीजं सर्वतो वै समावृतम्
दशोत्तरेण पयसा मैत्रेयांडं च तद्वृतम् । सर्वोम्बुपरिधानोसौ वह्निना वेष्टितो बहिः
वह्निश्च वायुना वायुर्मैत्रेय नभसा वृतः । भूतादिना नभः सोपि महता परहिवेष्टितः । देशोत्तराण्यश्षोआ!णि मैत्रेयैतानि सप्त वै
महान्तं च समावृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते
तदन्तमसंख्यातप्रमाणं चापि वै यतः । हेतुभूतमसेषस्य प्रकृतिः सा परा मुने
अंडानां तु सहस्राणां सहस्राण्ययुतानि च । ईदृशानां तथा तत्र कोटिकोटिशतानि च
हारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि । प्रधानेऽवस्थितो व्यापी चेतनात्मात्मवेदनः
प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया । विष्णुशक्त्या महाबुद्धे वृतौ संश्रयधर्मिणौ
तयोः सैव पृथग्भावकारणं संश्रयस्य च । क्षोभकारणभूता च सर्गकाले महामते
यथा सक्तं जले वातो बिभर्त्ति कणिकाशतम् । शक्तिः सापि तथा विष्णोः प्रधानपुरुषात्मकम्
यथा च पादयोर्मूलस्कन्धशाखादिसंयुतः । आदिबीजात्प्रभवति बीजान्यन्यानि वै ततः
प्रभवन्ति ततस्तेभ्यः सम्भवन्त्यपरे द्रु माः । तेपि तल्लक्षणद्र व्यकारणानुगता मुने
एवमव्याकृतात्पूर्वं जायन्ते महदादयः । विशेषान्तास्ततस्तेभ्यः संभवंत्यसुरादयः । तेभ्यश्च पुत्रास्तेषां च पुत्राणामपरे सुताः
बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः । भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा
सन्निधानाद्यथाकाशकालाद्याः कारणं तरोः । तथैवापरिणामेव विश्वस्य भगवान्हरिः
व्रीहिबीजे यथा मूलं नालं पत्राङ्कुरौ तथा । काण्डकोषस्तु पुष्पं च क्षीरं तद्वच्च तण्डुलाः
तुषाः कणाश्च सन्तो वै यान्त्याविर्भावमात्मनः । प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तम
तथा कर्मस्वनेकेषु देवाद्याः समवस्थिताः । विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै
स च विष्णुः परं ब्रह्म यतः सर्वमिदं जगत् । जगच्च यो यत्र चेदं यस्मिंश्च लयमेष्यति
तद्ब्रह्म तत्परं धाम सदसत्परमं पदम् । यस्य सर्वमभेदेन यतश्चैतच्चराचरम्
स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः । तस्मिन्नेव लयं सर्वं याति तत्र च तिष्ठति
कर्त्ता क्रियाणां स च इज्यते क्रतुः स एवतत्कर्मफलं च तस्य । स्रुगादियत्साधनमप्यश्षॐ हरेर्न किञ्चिद्व्यतिरिक्तमस्ति
श्रीपारशर उवाच तारामयं भगवतः शिशुमाराकृति प्रभोः । दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥ २,९.
सैष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् । भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २,९.
सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह । वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥ २,९.
शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि । नारायणोऽयनं धाम्नां तस्याधारः स्वयं हृदि ॥ २,९.
उत्तानपादपुत्रस्तु तमाराध्य जगत्पतिम् । स तारा शिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ २,९.
आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः । ध्रुवस्य शिशुमारस्तु ध्रुवे भानुर्व्यवस्थितः ॥ २,९.