एवं तातेन तेनाहमनुनीतो महात्मना । उपसंहृतवान्सत्रं सद्यस्तद्वाक्यगौरवात्
ततः प्रीतः स भगवान्वसिष्ठो मुनिसत्तमः । सम्प्राप्तश्च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः
पितामहेन दत्तार्घ्यः कृतासनपरिग्रहः । मामुवाच महाभागो मैत्रेय पुलहाग्रजः
वैरे महति यद्दाक्याद्गुरोरद्याश्रिता क्षमा । त्वया तस्मात्समस्तानि भवात्र्च्छास्त्राणि वेत्स्यति
सन्ततेर्न ममोच्छेदः क्रुद्धेनापि यतः कृतः । त्वया तस्मान्महाभाग ददाम्यन्यं महावरम्
पुराणसंहिताकर्ता भवान्वत्स भविष्यति । देवतापारमार्थ्यं च यथावद्वेत्स्यते भवान्
प्रवृत्ते च निवृत्ते च कर्मण्यस्तमला मतिः । मत्प्रसादादसन्दिग्धा तव वत्स भविष्यति
ततश्च प्राह भगवान्वसिष्ठो मे पितामहः । पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति
इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता । यदुक्तं तत्स्मृतिं याति त्वत्प्रश्नादखिलं मम
सोऽहं वदाम्यशेषं ते मैत्रेय परिपृच्छते । पुराणसंहितां सम्यक् तां निबोध यथातथम्
विष्णोः सकाशादुद्भूतं जगत्तत्रैव च स्थितम् । स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः
श्रीपराशर उवाच अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे
नमो हिरण्यगर्भाय हरये शंकराय च । वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे
सर्गस्थितिविनाशानां जगतो यो जगन्मयः । मूलभूतो नमस्तस्मै विष्णवे परमात्मने
आधारभूतं विश्वस्याप्यणीयांसमयीयसाम् । प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम्
ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्
विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् । प्रणम्य जगतामीशमजमक्षयमव्ययम्
कथयामि यथापूर्व दक्षाद्यैर्मुनिसत्तमैः । पृष्ट प्रोवाच भगवानब्जयोनिः पितामहः
तैश्चौक्तं पुरुकुत्साय भूभुजे निर्मदातटे । सारस्वताय तेनापि मह्मं सारस्वतेन च
परः पराणां परमः परमात्मात्मसंस्थितः । रूपवर्णादिनिर्देशविशेषणविवर्जितः
अपक्षयविनाशाभ्यां परिणामर्धिजन्मभिः । वर्जितः शक्यते वक्तुंयः सदास्तीति केवलम्
सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततः स वासुदेवेति विद्वद्भिः परिपठ्यते
तद्ब्रह्म परंमं नित्यमजमक्षयमव्ययम् । एकस्वरूपं तु सदा हेयाभावाच्च निर्मलम्
तदेव सर्वमेवैतद्व्यक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम्
परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज । व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम्
प्रधानपुरुषव्यक्तकालानां परमं हि यत् । पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम्
प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः । रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः
व्यक्तं विष्णुस्तथाव्यक्तं पुरुषः काल एव च । क्रीडतो बालकस्येव चेष्टां तस्य निशामय
अव्यक्तं कारणं यत्तत्प्रधानमृषिसत्तमैः । प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मकम्