ऋषिभ्यस्तु सहस्राणां शतादूर्ध्वं व्यवस्थितः । मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः
त्रैलोक्यमेतत्कथितमुत्सेधेन महामुने । इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता
ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनः । एकयोजनकोटिस्तु यत्र ते कल्पवासिनः
द्वे कोटी तु जनो लोको यत्र ते ब्रह्मणः सुताः । सनन्दनाद्याः प्रथिता मैत्रेयामलचेतसः
चतुर्गणोत्तरे चोर्ध्वं जनलोकात्तपः स्थितः । वैराजा यत्र ते देवाः स्थिता दाहविर्जिताः
षड्गुणेन तपोलोकात्सत्यलोको विराजते । अपुनर्मारका यत्र ब्रह्मलोको हि संस्मृतः
पादगम्यन्तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम् । स भूर्लोकः समाख्यातो विस्तरोस्य मयोदितः
भूमिसूर्यान्तरं यच्च सिद्धादिमुनिसेवितम् । भुवर्लोकस्तु सोप्युक्तो द्वितीयो मुनिसत्तम
ध्रुवसूर्यान्तरं यच्च नियुतानि चतुर्दश । स्वर्लोकः सोपि गदितो लोकसंस्थानचिन्तकैः
त्रैलोक्यमेतत्कृतकं मैत्रेय परिपठ्यते । जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम्
कृतकाकृतयोर्मध्ये महर्लोक इति स्मृतः । शून्यो भवति कल्पान्ते योत्यन्तं न विनश्यति
एते सप्त मया लोका मैत्रेय कथितास्तव । पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः
एतदण्डकटाहेन तिर्यक् चोर्ध्वमधस्तथा । कपित्थस्य यथा बीजं सर्वतो वै समावृतम्
दशोत्तरेण पयसा मैत्रेयांडं च तद्वृतम् । सर्वोम्बुपरिधानोसौ वह्निना वेष्टितो बहिः
वह्निश्च वायुना वायुर्मैत्रेय नभसा वृतः । भूतादिना नभः सोपि महता परहिवेष्टितः । देशोत्तराण्यश्षोआ!णि मैत्रेयैतानि सप्त वै
महान्तं च समावृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते
तदन्तमसंख्यातप्रमाणं चापि वै यतः । हेतुभूतमसेषस्य प्रकृतिः सा परा मुने
अंडानां तु सहस्राणां सहस्राण्ययुतानि च । ईदृशानां तथा तत्र कोटिकोटिशतानि च
हारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि । प्रधानेऽवस्थितो व्यापी चेतनात्मात्मवेदनः
प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया । विष्णुशक्त्या महाबुद्धे वृतौ संश्रयधर्मिणौ
तयोः सैव पृथग्भावकारणं संश्रयस्य च । क्षोभकारणभूता च सर्गकाले महामते
यथा सक्तं जले वातो बिभर्त्ति कणिकाशतम् । शक्तिः सापि तथा विष्णोः प्रधानपुरुषात्मकम्
यथा च पादयोर्मूलस्कन्धशाखादिसंयुतः । आदिबीजात्प्रभवति बीजान्यन्यानि वै ततः
प्रभवन्ति ततस्तेभ्यः सम्भवन्त्यपरे द्रु माः । तेपि तल्लक्षणद्र व्यकारणानुगता मुने
एवमव्याकृतात्पूर्वं जायन्ते महदादयः । विशेषान्तास्ततस्तेभ्यः संभवंत्यसुरादयः । तेभ्यश्च पुत्रास्तेषां च पुत्राणामपरे सुताः
बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः । भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा
सन्निधानाद्यथाकाशकालाद्याः कारणं तरोः । तथैवापरिणामेव विश्वस्य भगवान्हरिः
व्रीहिबीजे यथा मूलं नालं पत्राङ्कुरौ तथा । काण्डकोषस्तु पुष्पं च क्षीरं तद्वच्च तण्डुलाः
तुषाः कणाश्च सन्तो वै यान्त्याविर्भावमात्मनः । प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तम
तथा कर्मस्वनेकेषु देवाद्याः समवस्थिताः । विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै