वासुदेवे मनो यस्यजपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥ २,६.
क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ २,६.
तस्मादहर्निशं विष्णुं संस्मरन्पुरुषो मुने । न याति नरकं मर्त्यः संक्षीणाखिलपातकः ॥ २,६.
मनः प्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः । नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ॥ २,६.
वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च । कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥ २,६.
तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते ॥ २,६.
तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् । मनसः परिणामोयं सुखदुःखादिलक्षणः ॥ २,६.
ज्ञानमेव परं ब्रह्म ज्ञानं बन्धाय चेष्यते । ज्ञानात्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥ २,६.
विद्याविद्येति मैत्रेय ज्ञानमेवोपधारय ॥ २,६.
एवमेतन्मयाख्यातं भवतो मण्डलं भुवः । पातालानि च सर्वाणि तथैव नरका द्विज ॥ २,६.
समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः । संक्षेपात्सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ २,६.
कथितं भूतलं ब्रह्मन्ममैतदखिलं त्वया । भुवर्लोकादिकाँ ल्लोकाञ्छ्रोतुमिच्छाम्यहं मुने
तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा । समाचक्ष्व महाभाग तन्मह्यं परिपृच्छते
श्रीपराशर उवाच । रविचन्द्र मसोर्यावन्मयूखैरवभास्यते । ससमुद्र सरिच्छैला तावती पृथिवी स्मृता
यावत्प्रमाणा पृथिवी विस्तारपरिमण्डलात् । नभस्तावन्प्रमाणं वै व्यासमण्डलतो द्विज
भूमेर्यो जनलक्षे तु सौरं मैत्रेय मण्डलम् । लक्षाद्दिवाकरस्यापि मण्डलं शशिनः स्थितम्
पूर्णे शतसहस्रे तु योजनानां निशाकरात् । नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते
द्वे लक्षे चोत्तरे ब्रह्मन् बुधो नक्षत्रमण्डलात् । तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः
अङ्गारकोपि शुक्रस्य तत्प्रमाणे व्यवस्थितः । लक्षद्वये तु भौमस्य स्थितो देवपुरोहितः
सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे समवस्थितः । सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तम
ऋषिभ्यस्तु सहस्राणां शतादूर्ध्वं व्यवस्थितः । मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः
त्रैलोक्यमेतत्कथितमुत्सेधेन महामुने । इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता
ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनः । एकयोजनकोटिस्तु यत्र ते कल्पवासिनः
द्वे कोटी तु जनो लोको यत्र ते ब्रह्मणः सुताः । सनन्दनाद्याः प्रथिता मैत्रेयामलचेतसः
चतुर्गणोत्तरे चोर्ध्वं जनलोकात्तपः स्थितः । वैराजा यत्र ते देवाः स्थिता दाहविर्जिताः
षड्गुणेन तपोलोकात्सत्यलोको विराजते । अपुनर्मारका यत्र ब्रह्मलोको हि संस्मृतः
पादगम्यन्तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम् । स भूर्लोकः समाख्यातो विस्तरोस्य मयोदितः
भूमिसूर्यान्तरं यच्च सिद्धादिमुनिसेवितम् । भुवर्लोकस्तु सोप्युक्तो द्वितीयो मुनिसत्तम
ध्रुवसूर्यान्तरं यच्च नियुतानि चतुर्दश । स्वर्लोकः सोपि गदितो लोकसंस्थानचिन्तकैः
त्रैलोक्यमेतत्कृतकं मैत्रेय परिपठ्यते । जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम्