स्नुषां सुतां चापि गत्वा महाज्वाले निपात्यते । अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ २,६.
वेददूषयितायश्च वेदविक्रयकश्च यः । अगम्यगामी यश्च स्यात्ते यान्ति लवणं द्विज ॥ २,६.
चोरो विलोहे पतति मर्यादादूषकस्तथा ॥ २,६.
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः । स याति क्रिमिभक्षे वै क्रिमीशे च दुरिष्टकृत् ॥ २,६.
पितृदेवातिथींस्त्यक्त्वा पर्यश्नाति नराधमः । लालाभक्षे स यात्युग्रे शरकर्ता च वेधके ॥ २,६.
करोति कर्णिनो यश्च यश्च खङ्गादिकृन्नरः । प्रयान्त्येते विशसने नरके भृशदरुणे ॥ २,६.
असत्प्रतिगृहीता तु नरके यात्यधोमुखे । अयाज्ययाजकश्चैव तथा नक्षत्रसूचकः ॥ २,६.
वेगी पूयवहे चैको याति मष्टान्नभुङ्गरः ॥ २,६.
लाक्षामासरसानां च तिलानां लवणस्य च । विक्रेता ब्रह्मणो याति तमेव नरकं द्विज ॥ २,६.
मार्जारकुक्कुटच्छाग श्ववराहविहङ्गमान् । पोषयन्नरकं याति तमेव द्विजसत्तम ॥ २,६.
रङ्गोपजीवी कैवर्तः कुम्डाशी गरदस्तथा । सूची माहिषकश्चैव पर्वकारी च यो द्विजः ॥ २,६.
अगारदाही मित्रघ्नः शाकुनिर्ग्रमयाजकः । रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ २,६.
मखहा ग्रामहन्ता च याति वैतरणीं नरः ॥ २,६.
रेतः पातादिकर्तारो मर्यादाभेदिनो हि ये । ते कृष्णे यान्त्यशौचाश्च कुहकाजीविनश्च ये ॥ २,६.
असिपत्रवनं याति वनच्छेदी वृथैव यः । औरभ्रिको मृगव्याधो वह्निज्वाले पतन्ति वै ॥ २,६.
यान्त्येते द्विज तत्रैव ये चापाकेषु वह्निदाः ॥ २,६.
व्रतानां लोपको यश्चस्वाश्रमाद्विच्युतश्च यः । सन्दंशयातनामध्ये पततस्तावुभावपि ॥ २,६.
दिवा स्वप्ने च स्कन्दन्ते ये नरा ब्रह्मचारिणः । पुत्रैरध्यापिता ये च ते पतन्ति श्वभोजने ॥ २,६.
एते चान्ये च नरकाः शतशोथ सहस्रशः । येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ २,६.
यथैव पापान्येतानि तथान्यानि सहस्रशः । भुज्यन्ते तानि पुरुषैर्नरकान्तरगोचरैः ॥ २,६.
वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः । कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ २,६.
अधः शिरोभिदृश्यन्ते नारकैर्दिवि देवताः । देवाश्चाधोमुखान्सर्वानधः पश्यन्ति नारकान् ॥ २,६.
स्थावराः क्रिमयोब्जाश्च पक्षिणः पशवो नराः । धार्मिकास्त्रिदशास्तद्धन्मोक्षिणश्च यथाक्रमम् ॥ २,६.
सहस्रभागप्रथमा द्वितीयानुक्रमास्तथा । सर्वे ह्येते महाभागा यावन्मुक्तिसमाश्रयाः ॥ २,६.
यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः । पापकृद्याति नरकं प्रायाश्चित्तपराङ्मुखः ॥ २,६.
पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा । तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ २,६.
पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः । प्रायश्चित्तानि मैत्रेय जगुः स्वायंभुवादयः ॥ २,६.
प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणम्परम् ॥ २,६.
कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ २,६.
प्रातर्निशि तथा सन्ध्यामध्याह्नादिषु संस्मरन् । नारायणमवाप्नोति सद्यः पापक्षयन्नरः । विष्णुसंस्मरणात्क्षीणसमस्तक्लेशसञ्चयः । मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विघ्नोनुमीयते ॥ २,६.