स्थालीस्थमग्नीसंयोगादुद्रेकिसलिले यथ । तथेन्दुवृद्धौ सलिलमंभोधौ मुनिसत्तम ॥ २,४.
अन्यूनानतिरिक्ताश्च वर्धन्त्यापो ह्रसंति च । उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥ २,४.
दशोत्तराणि पञ्चैव ह्यङ्गुलानां शतानि वै । अपां वृद्धिक्षणो दृष्टौ सामुद्रीणां महामुने ॥ २,४.
भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् । षड्रसं भुञ्जते विप्र प्रजाः सर्वाः सदैव हि ॥ २,४.
स्वादूदकस्य परितो दृस्यते लोकसंस्थितिः । द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता ॥ २,४.
लोकालोकस्ततः शैलो जोजनायुतविस्तृतः । उच्छ्रायेणापि तावन्ति सहस्राण्यचलो हि सः ॥ २,४.
ततस्तमः समावृत्य तं शौलं सर्वतः स्थितम् । तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम् ॥ २,४.
पञ्चशत्कोटिविस्तारा सेयमुर्व महामुने । सहैवाण्डकटाहेन सद्वीपाब्धिमहीधरा ॥ २,४.
सेयं धात्री विधात्री च सर्वभूतगुणाधिका । आधारभू६ आ सर्वेषां मैत्रेय जगतामिति ॥ २,४.
पराशर उवाच ततश्च नरका विप्र भुवोधः सलिलस्य च । पापिनो येषु पात्यन्ते ताञ्छृणुष्वमहामुने ॥ २,६.
रौरवः सूकरो रोधस्तालो विशसनस्तथा । महाज्वालस्तप्तकुम्भो लवणेथ विलोहितः ॥ २,६.
रुधिराम्भो वैतरणिः क्रिमिशः क्रिमिभोजनः । असिपत्रवनं कृष्णो लालाभक्षश्च दारुणः ॥ २,६.
तथा पूयवहः पापो वह्निज्वालो ह्यधः शिराः । संदंशः कालसूत्रश्च तमश्चावीचिरेव च ॥ २,६.
श्वभोजनोथाप्रतिष्ठश्चाप्रचिश्च तथा परः । इत्येवमादयश्चान्ये नरका भृशदारुणाः ॥ २,६.
यमस्य विषये घोराः शस्त्राग्निभयदायिनः । पतन्ति येषु पुरुषाः पापकर्मरतास्तु ये ॥ २,६.
कूटसाक्षी तथासम्यक्पक्षपातेन यो वदेत् । यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ॥ २,६.
भ्रूणहा पुरहन्ता च गौघ्नश्च मुनिसत्तम । यान्ति ते नरकं रोधं यश्चोच्छ्वासनिरोधकः ॥ २,६.
सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूकरे । प्रयान्ति नरके यश्च तैः संसर्गमुपैति वै ॥ २,६.
राजन्यवैश्यहन्ता च तथैव गुरुतल्पगः । तप्तकुण्डेस्वसृगामी हन्ति राजभटांश्च यः ॥ २,६.
साध्वीविक्रयकृद्बन्धपालः केसरिविक्रयी । तप्तलोहे पतन्त्येते यश्च च भक्तं परित्यजेत् ॥ २,६.
स्नुषां सुतां चापि गत्वा महाज्वाले निपात्यते । अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ २,६.
वेददूषयितायश्च वेदविक्रयकश्च यः । अगम्यगामी यश्च स्यात्ते यान्ति लवणं द्विज ॥ २,६.
चोरो विलोहे पतति मर्यादादूषकस्तथा ॥ २,६.
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः । स याति क्रिमिभक्षे वै क्रिमीशे च दुरिष्टकृत् ॥ २,६.
पितृदेवातिथींस्त्यक्त्वा पर्यश्नाति नराधमः । लालाभक्षे स यात्युग्रे शरकर्ता च वेधके ॥ २,६.
करोति कर्णिनो यश्च यश्च खङ्गादिकृन्नरः । प्रयान्त्येते विशसने नरके भृशदरुणे ॥ २,६.
असत्प्रतिगृहीता तु नरके यात्यधोमुखे । अयाज्ययाजकश्चैव तथा नक्षत्रसूचकः ॥ २,६.
वेगी पूयवहे चैको याति मष्टान्नभुङ्गरः ॥ २,६.
लाक्षामासरसानां च तिलानां लवणस्य च । विक्रेता ब्रह्मणो याति तमेव नरकं द्विज ॥ २,६.
मार्जारकुक्कुटच्छाग श्ववराहविहङ्गमान् । पोषयन्नरकं याति तमेव द्विजसत्तम ॥ २,६.