अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विज । नेर्ष्यासूया भयं द्वेषो दोषो लोभादिको न च ॥ २,४.
महापीतंबहिर्वर्षं धातकीखण्डमन्ततः । मानसोत्तरशौलस्य देवदैत्यादिसेवितम् ॥ २,४.
सत्यानृतेन तत्रास्तां द्वीपे पुष्करसंज्ञिते । न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते ॥ २,४.
तुल्यपेषास्तु मनुजा देवास्तत्रैकरूपिणः ॥ २,४.
वर्णाश्रमाचारहीनं धर्माचरणवर्जितम् । त्रयीवार्तादण्डनीतिशुश्रूषारहितञ्च यत् ॥ २,४.
वर्षद्वयं तु मैत्रेय भौमः स्वर्गोयमुत्तमः । सर्वर्तुसुखदः कालो जरारोगादिवर्जितः । धातकीखण्डसंज्ञेऽथ महावीरे च वै मुने ॥ २,४.
न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् । तस्मिन्नवसति ब्रह्मा पूज्यमानः सुरासुरैः ॥ २,४.
स्वादूदकेनोदधिना पुष्करः परिवेष्टितः । समेन पुष्करस्यैव विस्तारान्मण्डलं तथा ॥ २,४.
एवं द्वीपाः समुद्रैश्च सप्तसप्तभिरावृताः । द्वीपश्चैव समुद्रश्च समानो द्विगुणौ परौ ॥ २,४.
पयांसि सर्वदा सर्वसमुद्रेषु समानि वै । न्यूनातिरिक्तता तेषां कदाचिन्नैव जायते ॥ २,४.
स्थालीस्थमग्नीसंयोगादुद्रेकिसलिले यथ । तथेन्दुवृद्धौ सलिलमंभोधौ मुनिसत्तम ॥ २,४.
अन्यूनानतिरिक्ताश्च वर्धन्त्यापो ह्रसंति च । उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥ २,४.
दशोत्तराणि पञ्चैव ह्यङ्गुलानां शतानि वै । अपां वृद्धिक्षणो दृष्टौ सामुद्रीणां महामुने ॥ २,४.
भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् । षड्रसं भुञ्जते विप्र प्रजाः सर्वाः सदैव हि ॥ २,४.
स्वादूदकस्य परितो दृस्यते लोकसंस्थितिः । द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता ॥ २,४.
लोकालोकस्ततः शैलो जोजनायुतविस्तृतः । उच्छ्रायेणापि तावन्ति सहस्राण्यचलो हि सः ॥ २,४.
ततस्तमः समावृत्य तं शौलं सर्वतः स्थितम् । तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम् ॥ २,४.
पञ्चशत्कोटिविस्तारा सेयमुर्व महामुने । सहैवाण्डकटाहेन सद्वीपाब्धिमहीधरा ॥ २,४.
सेयं धात्री विधात्री च सर्वभूतगुणाधिका । आधारभू६ आ सर्वेषां मैत्रेय जगतामिति ॥ २,४.
पराशर उवाच ततश्च नरका विप्र भुवोधः सलिलस्य च । पापिनो येषु पात्यन्ते ताञ्छृणुष्वमहामुने ॥ २,६.
रौरवः सूकरो रोधस्तालो विशसनस्तथा । महाज्वालस्तप्तकुम्भो लवणेथ विलोहितः ॥ २,६.
रुधिराम्भो वैतरणिः क्रिमिशः क्रिमिभोजनः । असिपत्रवनं कृष्णो लालाभक्षश्च दारुणः ॥ २,६.
तथा पूयवहः पापो वह्निज्वालो ह्यधः शिराः । संदंशः कालसूत्रश्च तमश्चावीचिरेव च ॥ २,६.
श्वभोजनोथाप्रतिष्ठश्चाप्रचिश्च तथा परः । इत्येवमादयश्चान्ये नरका भृशदारुणाः ॥ २,६.
यमस्य विषये घोराः शस्त्राग्निभयदायिनः । पतन्ति येषु पुरुषाः पापकर्मरतास्तु ये ॥ २,६.
कूटसाक्षी तथासम्यक्पक्षपातेन यो वदेत् । यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ॥ २,६.
भ्रूणहा पुरहन्ता च गौघ्नश्च मुनिसत्तम । यान्ति ते नरकं रोधं यश्चोच्छ्वासनिरोधकः ॥ २,६.
सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूकरे । प्रयान्ति नरके यश्च तैः संसर्गमुपैति वै ॥ २,६.
राजन्यवैश्यहन्ता च तथैव गुरुतल्पगः । तप्तकुण्डेस्वसृगामी हन्ति राजभटांश्च यः ॥ २,६.
साध्वीविक्रयकृद्बन्धपालः केसरिविक्रयी । तप्तलोहे पतन्त्येते यश्च च भक्तं परित्यजेत् ॥ २,६.