नाम रूपं च भूतानां कृत्यानां च प्रपंचनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः
ऋषीणां नामधेयानि यथा वेदश्रुतानि वै । तथा नियोगयोग्यानि ह्यन्येषामपि सोऽकरोत्
यथर्तुष्वृतुलिंगानि नानारूपाणि पर्य ये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु
करोत्येवंविधां सृष्टिं कल्पादौ स पुनःपुनः । सिसृक्षाशक्तियुक्तोसौ सृज्यशक्तिप्रचोदितः
(गृहस्थसदाचाराणां मूत्रपुरीषोत्सर्गविधेश्च वर्णनम्) सगर उवाच गृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने । लोकादस्मात् परस्माच्च यमातिष्ठन्न हीयते
और्व उवाच श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् । सदाचारवता पुंसा जितौ लोकावुभावपि
साधवः क्षीणदोषास्तु सच्छब्दः साधुवाचकः । तेषामाचरणं यस्तु सदाचारस्स उच्यते
सप्तर्षयोऽथ मनवः प्रजानां पतयस्तथा । सदाचारस्य वक्तारः कर्तारश्च महीपते
ब्राह्मे मुहूर्त्ते चोत्थाय मनसा मतिमान्नृप । प्रबुद्धश्चिन्तयेद्धर्ममर्थं चाप्यविरोधिनम्
अपीडया तयोः काममुभयोरपि चिन्तयेत् । दृष्टादृष्टविनाशाय त्रिवर्गे समदर्शिता
परित्यजेदर्थकामौ धर्मपीडाकरौ नृप । धर्ममप्यसुखोदर्कं लोकविद्वेष्टमेव च
ततः कल्यं समुत्थाय कुर्यान्मैत्रं नरेश्वर
नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः । दूरादावसथान्मूत्रं पुरीषं च विसर्जयेत्
पादावनेजनोच्छिष्टे प्रक्षिपेन्न गृहाङ्गणे
आत्मच्छायां तरुच्छायां गोसूर्याग्न्यनिलांस्तथा । गुरुद्विजादींस्तु बुधो नाधिमेहेत् कदाचन
न कृष्टे सस्यमध्ये वा गोव्रजे जनसंसदि । न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ
नाप्सु नैवाम्भसस्तीरे श्मशाने न समाचरेत् । उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम्
उदङ्मुखो दिवा मूत्रं विपरीतमुखो निशि । कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव
तृणैरास्तीर्य वसुधां वस्त्रप्रावृतमस्तकः । तिष्ठेन्नातिचिरं तत्र नैव किंचिदुदीरयेत्
वल्मीकमूषिकोद्भूतां मृदं नान्तर्जलां तथा । शौचावशिष्टां गेहाच्च नादद्याल्लेपसम्भवाम्
अणुप्राण्युपपन्नां च हलोत्खातां च पार्थिव । परित्यजेन्मृदो ह्येतास्सकलाश्शौचकर्मणि
एका लिंगे गुदे तिस्रो दश वामकरे नृप । हस्तद्वये च सप्त स्युर्मृदश्शौचोपपादिकाः
अच्छेनागन्धलेपेन जलेनाबुद्बुदेन च । आचामेच्च मृदं भूयस्तथा दद्यात् समाहितः
निष्पादिताङ्घ्रिशौचस्तु पादावभ्युक्ष्य वै पुनः । त्रिः पिबेत्सलिलं तेन तथा द्विः परिमार्जयेत्
शीर्षण्यानि ततः खानि मूर्द्धानं च समालभेत् । बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत्
आचांतस्तु ततः कुर्यात् पुमान् केशप्रसाधनम् । आदर्शाञ्जनमाङ्गल्यं दूर्वाद्यालम्भनानि च
ततस्स्ववर्णधर्मेण वृत्त्यर्थं च धनार्जनम् । कुर्वीत श्रद्धासंपन्नो यजेच्च पृथिवीपते
सोमसंस्था हविस्संस्थाः पाकसंस्थास्तु संस्थिताः । धने यतो मनुष्याणां यतेतातो धनार्जने
नदीनदतटाकेषु देवखातजलेषु च । नित्यक्रियार्थं स्नायीत गिरिप्रस्रवणेषु च
कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि । गृहेषूद्धृततोयेन ह्यथवा भुव्यसम्भवे