शाकद्वीपेश्वरस्यापि भव्यस्य मुमहात्मनः । सप्तैव तनयास्तषां ददौ वर्षाणि सप्त सः ॥ २,४.
जलदश्च कुमारश्च मुकुमारो मरीचकः । कुसुमोदश्च मौदाकिः सप्तमश्च महाद्रुमः ॥ २,४.
तत्संज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् । तत्रापि पर्वताः स्पत वर्षविच्छेदकारिणः ॥ २,४.
पूर्वस्तत्रोदयगिरिर्जलाधारस्तथापरः । तथा रैवतकः श्यामस्तथैवास्तगिरिर्द्विज । आम्बिकेयस्तथा रम्यः केसरी पर्वतोत्तमः ॥ २,४.
शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः । यत्रत्यवातसंस्पार्शादाह्लादो जायते परः ॥ २,४.
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । नद्यश्चात्र महापुण्याः सर्वपापभयापहाः ॥ २,४.
सुकुमारी कुमारी च नलिनी धेनुका च या । इक्षुश्च वेणुका चैव गभस्ती सप्तमी तथा ॥ २,४.
अन्याश्च शतशस्तत्र क्षुद्रनद्यो महामुने । महीधरास्तथा सन्ति शतशोथ सहस्रशः ॥ २,४.
ताः पिबन्ति मुदायुक्ता जलदादिषु ये स्थिताः । वर्षषु ते जनपदाः स्वर्गादभ्येत्य मेदिनीम् ॥ २,४.
धर्महानिर्न तेष्वस्ति न संघर्षः परस्परम् । मर्यादाव्युत्क्रमो नापि तेषु देशेषु सप्तसु ॥ २,४.
वङ्गाश्च मागधाश्चैव मानसा मन्दगास्तथा । वङ्गा ब्रह्मणभूयिष्ठा मागधाः क्षत्रियास्तथा । वैश्यास्तु मानसास्तेषां शूद्रस्तेषां तु मन्दगाः ॥ २,४.
शाकद्वीपे तु तैर्विष्णुः सूर्यरूपधरो मुने । यथोक्तौरिज्यते सम्यक्कर्मभिर्नियतात्मभिः ॥ २,४.
शाकद्वीपस्तु मैत्रेय क्षीरोदेन समावृतः । शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः ॥ २,४.
क्षीराब्धिः सर्वतो ब्रह्मन्पुष्कराख्येन वेष्टितः । द्वीपेन शाकद्वीपात्तु द्विगुणेन समन्ततः ॥ २,४.
पुष्करे सवनस्यापि महावीरोऽभवत्सुतः । धातुकिश्च तयोस्तत्र द्वे वर्षे नामचिह्निते । महावीरं तथैवान्यद्धातुकीखण्डसंज्ञितम् ॥ २,४.
एकश्चत्र महाभाग प्रख्यातो वर्षपर्वतः । मानासोत्तरसंज्ञो वै मध्यतो वलयाकृतिः ॥ २,४.
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः । तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ २,४.
पुष्करद्वीपवलयं मध्येन विभजन्निव । स्थितोसौ तेन विछिन्नं जातं तद्वर्षकद्वयम् ॥ २,४.
वलयाकारमेकैकं तयोर्वर्षं तथा गिरिः ॥ २,४.
दशवर्षसहस्राणि तत्र जीवन्ति मानवाः । विरामया विशोकाश्च रागद्वेषादिवर्जिताः ॥ २,४.
अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विज । नेर्ष्यासूया भयं द्वेषो दोषो लोभादिको न च ॥ २,४.
महापीतंबहिर्वर्षं धातकीखण्डमन्ततः । मानसोत्तरशौलस्य देवदैत्यादिसेवितम् ॥ २,४.
सत्यानृतेन तत्रास्तां द्वीपे पुष्करसंज्ञिते । न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते ॥ २,४.
तुल्यपेषास्तु मनुजा देवास्तत्रैकरूपिणः ॥ २,४.
वर्णाश्रमाचारहीनं धर्माचरणवर्जितम् । त्रयीवार्तादण्डनीतिशुश्रूषारहितञ्च यत् ॥ २,४.
वर्षद्वयं तु मैत्रेय भौमः स्वर्गोयमुत्तमः । सर्वर्तुसुखदः कालो जरारोगादिवर्जितः । धातकीखण्डसंज्ञेऽथ महावीरे च वै मुने ॥ २,४.
न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् । तस्मिन्नवसति ब्रह्मा पूज्यमानः सुरासुरैः ॥ २,४.
स्वादूदकेनोदधिना पुष्करः परिवेष्टितः । समेन पुष्करस्यैव विस्तारान्मण्डलं तथा ॥ २,४.
एवं द्वीपाः समुद्रैश्च सप्तसप्तभिरावृताः । द्वीपश्चैव समुद्रश्च समानो द्विगुणौ परौ ॥ २,४.
पयांसि सर्वदा सर्वसमुद्रेषु समानि वै । न्यूनातिरिक्तता तेषां कदाचिन्नैव जायते ॥ २,४.