नववर्षं तु मैत्रेय जम्बुद्वीपमिदं मया । लक्षयोजनविस्तारं संक्षेपात्कथितं तव ॥ २,३.
जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः । मैत्रेय वलयाकारः स्थितः क्षारोदधिर्बहिः ॥ २,३.
श्रीपराशर उवाच क्षारोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः । संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥ २,४.
जम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः । स एवं द्विगुणो ब्रह्मन् प्लक्षद्वीप उदाहृतः ॥ २,४.
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । ज्येष्ठ शान्तहयो नाम शिशिरस्तदनन्तरः ॥ २,४.
सुखोदयस्तथानन्दः शिवः क्षेमक एव च । ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ २,४.
पूर्वं शान्तहयं वर्षं शिशिरं च सुखं तथा । आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥ २,४.
मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः । सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम ॥ २,४.
गोमदेश्चैव चन्द्रश्च नारदौ दुन्दुभिस्तथा । सोमकः मुमनाश्चैव वैभ्राजश्चैव सप्तमः ॥ २,४.
वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः । वसंति देवगन्धर्वसहिताः सततं प्रजाः ॥ २,४.
तेषु पुण्या जनपदाश्चिराच्च म्रियते जनः । नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ २,४.
तेषां नद्यस्तु सप्तैव वर्षाणां च समुद्रगाः । नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ २,४.
अनुतप्ता शिखी चैव विपाशा त्रिदिवाक्लमः । अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ २,४.
एते शैलास्तथा नद्यः प्रधानाः कथितास्तव । क्षुद्रशैलास्तथा नद्यस्तत्र सन्ति सहस्रशः । ताः पिबन्दि सदाहृष्टा नदीर्जनपदास्तुते ॥ २,४.
अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज । न त्वेवास्ति युगावस्था तेषु स्तानेषु सप्तसु ॥ २,४.
त्रेतायुगसमः कालः सर्वदैव महामते । प्लक्षद्वीपादिषु ब्रह्मञ्शाकद्वीपान्तिकेषु वै ॥ २,४.
पञ्च वर्षसहस्राणि जना जीवन्त्यनामयाः । धर्मः पञ्चस्वथैतेषु वर्णाश्रमविभागशः ॥ २,४.
वर्णाश्च तत्र चत्वारस्तान्निबोध वदामि ते ॥ २,४.
आर्यकाः कुरारश्चैव विदिश्या भाविनश्चे ते । विप्रक्षत्रिवैश्यास्ते शूद्राश्च मुनिसत्तम ॥ २,४.
ज्मबूवृक्षप्रमाणस्तु तन्मध्ये सुमहांस्तरुः । प्लक्षस्तन्नामसंज्ञोयं प्लक्षद्वीपो द्विजोत्तम ॥ २,४.
इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः । सीमरूपि जगत्स्त्रष्टा सर्वः सर्वेश्वरो हरिः ॥ २,४.
प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः । तथैवेक्षुरमोदेन परिवेषानुकारिणा ॥ २,४.
इत्येवं तव मैत्रेय प्लक्षद्वीप उदाहृतः । संक्षेपेण मया भूयः शाल्मलं मे निसामय ॥ २,४.
शाल्ममस्येश्वरोःवीरो वपुष्मांस्तत्सुताञ्छृणु । तेषां तु नामसंज्ञानि सप्तवर्षाणि तानि वै ॥ २,४.
श्वेतोथ हरितश्चैव जीमूतो रोहितस्तथा । वैद्युतो मानसश्चैव सुप्रभश्च महामुने ॥ २,४.
शाल्मलेन समुद्रोसौ द्वीपेनेक्षुरसोदकः । विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ २,४.
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः । वर्षाभिव्यञ्जका ये तु तथा सप्त च निम्नगाः ॥ २,४.
कुमुदश्चेन्नतश्चैव तृतीयश्च बलाहकः । द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ २,४.
कङ्कस्तुपञ्चमः षष्ठी महिषः सप्तमस्तथा । ककुद्मान्पर्वतवरः सरिन्नामानि मे शृणु ॥ २,४.
योनितोयो वितृष्णा च चन्द्रा मुक्ता विमोचनी । निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ २,४.