कारूषा मालबाश्चैव पारियात्र निवासिनः । सौवीराः सैन्धवा हूणाः साल्वाः कोसलवासिनाः ॥ २,३.
माद्रारामास्तथाम्बष्ठा पारसीकादयस्तथा । आसां पिबन्ति सलिलं वसन्ति सहिताः सदा । समीपतो महाभाग हृष्टपुष्टजनाकुलाः ॥ २,३.
चत्वारि भारते वर्षे युगान्यत्र महामुने । कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् ॥ २,३.
तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्वनः । दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ २,३.
पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते । यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ २,३.
अत्रापि भारतं श्रेष्ठं जन्बूद्वीपे महामुने । यतो हि कर्मभूरेषा ह्यतोन्या भोगभूमयः ॥ २,३.
अत्र जन्मसहस्राणां सहस्रैरपि सत्तम । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंचयात् ॥ २,३.
गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारत भूमिभागे । स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २,३.
कर्माण्यसंकल्पिततत्फलानि संन्यस्य विष्णो परमात्म्भूते । अवाप्य तां कर्ममहीमनन्ते तस्मिल्लयं ये त्वमलाः प्रयान्ति ॥ २,३.
जानीम नैतत्क्व वयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् । प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः ॥ २,३.
नववर्षं तु मैत्रेय जम्बुद्वीपमिदं मया । लक्षयोजनविस्तारं संक्षेपात्कथितं तव ॥ २,३.
जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः । मैत्रेय वलयाकारः स्थितः क्षारोदधिर्बहिः ॥ २,३.
श्रीपराशर उवाच क्षारोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः । संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥ २,४.
जम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः । स एवं द्विगुणो ब्रह्मन् प्लक्षद्वीप उदाहृतः ॥ २,४.
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । ज्येष्ठ शान्तहयो नाम शिशिरस्तदनन्तरः ॥ २,४.
सुखोदयस्तथानन्दः शिवः क्षेमक एव च । ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ २,४.
पूर्वं शान्तहयं वर्षं शिशिरं च सुखं तथा । आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥ २,४.
मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः । सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम ॥ २,४.
गोमदेश्चैव चन्द्रश्च नारदौ दुन्दुभिस्तथा । सोमकः मुमनाश्चैव वैभ्राजश्चैव सप्तमः ॥ २,४.
वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः । वसंति देवगन्धर्वसहिताः सततं प्रजाः ॥ २,४.
तेषु पुण्या जनपदाश्चिराच्च म्रियते जनः । नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ २,४.
तेषां नद्यस्तु सप्तैव वर्षाणां च समुद्रगाः । नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ २,४.
अनुतप्ता शिखी चैव विपाशा त्रिदिवाक्लमः । अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ २,४.
एते शैलास्तथा नद्यः प्रधानाः कथितास्तव । क्षुद्रशैलास्तथा नद्यस्तत्र सन्ति सहस्रशः । ताः पिबन्दि सदाहृष्टा नदीर्जनपदास्तुते ॥ २,४.
अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज । न त्वेवास्ति युगावस्था तेषु स्तानेषु सप्तसु ॥ २,४.
त्रेतायुगसमः कालः सर्वदैव महामते । प्लक्षद्वीपादिषु ब्रह्मञ्शाकद्वीपान्तिकेषु वै ॥ २,४.
पञ्च वर्षसहस्राणि जना जीवन्त्यनामयाः । धर्मः पञ्चस्वथैतेषु वर्णाश्रमविभागशः ॥ २,४.
वर्णाश्च तत्र चत्वारस्तान्निबोध वदामि ते ॥ २,४.
आर्यकाः कुरारश्चैव विदिश्या भाविनश्चे ते । विप्रक्षत्रिवैश्यास्ते शूद्राश्च मुनिसत्तम ॥ २,४.
ज्मबूवृक्षप्रमाणस्तु तन्मध्ये सुमहांस्तरुः । प्लक्षस्तन्नामसंज्ञोयं प्लक्षद्वीपो द्विजोत्तम ॥ २,४.