गायत्रं च ऋचश्चैव त्रिवृत्सोमं रथन्तरम् । अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात्
यजूंषि त्रैष्टुभं छन्दः स्तोमं पंचदशं तथा । बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात्
सामानि जगतीछन्दः स्तोमं सप्तदशं तथा । वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात्
एकविंशमथर्वाणमाप्तोर्यामाणमेव च । अनुष्टुभं च वैराजमुत्तरादसृजन्मुखात्
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे । देवासुरपितॄन् सृष्ट्वा मनुष्यांश्च प्रजापतिः
ततः पुनः ससर्जादौ संकल्पस्य पितामहः । यक्षान् पिशाचान्गन्धर्वान् तथैवाप्सरसां गणान्
नरकिन्नररक्षांसि वयः पशुमृगोरगान् । अव्ययं च व्ययं चैव यदिदं स्थाणुजंगमम्
तत्ससर्ज तदा ब्रह्म भगवानादिकृत्प्रभुः । तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनःपुनः
हिंस्राहिंस्रे मृदुक्रूरे धर्मधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते
इन्द्रि यार्थेषु भूतेषु शरीरेषु च स प्रभुः । नानात्वं विनियोगं च धातैवं व्यसृजत्स्वयम्
नाम रूपं च भूतानां कृत्यानां च प्रपंचनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः
ऋषीणां नामधेयानि यथा वेदश्रुतानि वै । तथा नियोगयोग्यानि ह्यन्येषामपि सोऽकरोत्
यथर्तुष्वृतुलिंगानि नानारूपाणि पर्य ये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु
करोत्येवंविधां सृष्टिं कल्पादौ स पुनःपुनः । सिसृक्षाशक्तियुक्तोसौ सृज्यशक्तिप्रचोदितः
(गृहस्थसदाचाराणां मूत्रपुरीषोत्सर्गविधेश्च वर्णनम्) सगर उवाच गृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने । लोकादस्मात् परस्माच्च यमातिष्ठन्न हीयते
और्व उवाच श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् । सदाचारवता पुंसा जितौ लोकावुभावपि
साधवः क्षीणदोषास्तु सच्छब्दः साधुवाचकः । तेषामाचरणं यस्तु सदाचारस्स उच्यते
सप्तर्षयोऽथ मनवः प्रजानां पतयस्तथा । सदाचारस्य वक्तारः कर्तारश्च महीपते
ब्राह्मे मुहूर्त्ते चोत्थाय मनसा मतिमान्नृप । प्रबुद्धश्चिन्तयेद्धर्ममर्थं चाप्यविरोधिनम्
अपीडया तयोः काममुभयोरपि चिन्तयेत् । दृष्टादृष्टविनाशाय त्रिवर्गे समदर्शिता
परित्यजेदर्थकामौ धर्मपीडाकरौ नृप । धर्ममप्यसुखोदर्कं लोकविद्वेष्टमेव च
ततः कल्यं समुत्थाय कुर्यान्मैत्रं नरेश्वर
नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः । दूरादावसथान्मूत्रं पुरीषं च विसर्जयेत्
पादावनेजनोच्छिष्टे प्रक्षिपेन्न गृहाङ्गणे
आत्मच्छायां तरुच्छायां गोसूर्याग्न्यनिलांस्तथा । गुरुद्विजादींस्तु बुधो नाधिमेहेत् कदाचन
न कृष्टे सस्यमध्ये वा गोव्रजे जनसंसदि । न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ
नाप्सु नैवाम्भसस्तीरे श्मशाने न समाचरेत् । उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम्
उदङ्मुखो दिवा मूत्रं विपरीतमुखो निशि । कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव
तृणैरास्तीर्य वसुधां वस्त्रप्रावृतमस्तकः । तिष्ठेन्नातिचिरं तत्र नैव किंचिदुदीरयेत्
वल्मीकमूषिकोद्भूतां मृदं नान्तर्जलां तथा । शौचावशिष्टां गेहाच्च नादद्याल्लेपसम्भवाम्