निषधः पारिपात्रश्च मर्य्यादापर्व्वतावुभौ । मेरोः परिचमदिगभागे यता पूर्व्वौ तथा स्थितौ
त्रिश्वृह्गो जारुधिश्चैव उत्तरौ वर्षपर्व्वतौ । पूर्व्वपश्वायतावेतावर्णवान्तर्व्यवस्थितौ
इत्येते मुनिवर्य्योक्ता मर्य्यादापर्व्वतास्तव । जठराद्याः स्थिता मेरोस्तेषां द्रौ द्रौ चतुर्दिशम्
मैरोश्चतुर्दिशं ये तु प्रोक्ताः केसरपर्व्वताः । शीतान्ताद्या मुने ! तेषामतीव हि मनोरमाः
शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः । सुरम्याणि तथा तासु काननानि पुराणि च
लक्ष्मी-विष्णवग्निसूर्य्यादिदेवानां मुनिसत्तम् । तास्वायतनवर्षाणि जुष्टानि वरकिन्नरैः
गन्घर्व्वयक्षरक्षांसि तथा दैतेयदानवाः । क्रीड़न्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम्
भौमा ह्येते स्मृताः स्वर्गा धर्म्मिणामालया मुने । नैतेषु पापकर्म्मणो यान्ति जन्मशतैरपि
भद्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विज । वराहः केतुमाले तु भारते कूर्म्मरूपधृक्
मत्स्यरूपश्व गोविन्दः कुरुष्वास्ते जनार्द्दनः । विश्वरूपेण सर्व्वत्र सर्व्वः सर्वत्रगो हरिः
सर्व्वस्याधारभूतोऽसौ मैत्रेयास्तेऽखिलात्मकः । यानि किम्पुरुषादीनि वर्षाण्यष्टौ महामुने । न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम्
सुस्थाः प्रजा निरातङ्काः सर्व्वदुःखविवर्ज्जिताः । दशद्वादशवर्षाणां सहस्त्राणि स्थिरायुषः
न तेषु वर्षते देवो भौमान्यम्भांसि तेषु वै । कृत-त्रेतादिका नैव तेषु स्थानेषु कल्पना
सर्व्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः । नद्यश्व शतशस्तेभ्यः प्रसूता या द्विजोत्तम
श्रीपराशर उवाच उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ २,३.
नवयोजनसाहस्रो विस्तारोस्य महामुने । कर्मभूमिरियं स्वर्गमपवर्गं च गच्छताम् ॥ २,३.
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च पारीयात्रश्च सप्तात्र कुलपर्वताः ॥ २,३.
अतः संप्राप्यते स्वर्गो सुक्तिमस्मात्प्रयान्ति वै । तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा मुने ॥ २,३.
इतः स्वर्गश्च मोक्षश्च मध्यं चान्तश्च गम्यते । न ख्लवन्यत्र मर्त्यानां कर्मभूमौ विधीयते ॥ २,३.
भारतस्यास्य वर्षस्य नवभादान्नशामय । इद्रद्वीपः कसेरुश्च ताम्रपर्णां गभस्तिमान् ॥ २,३.
नागद्वीपस्तथा साम्यो गन्धर्वस्त्वथ चारुणः । अयं तु नवमस्तषां द्वीपः सागारसंवृतः ॥ २,३.
योजनानां सहस्रं तु द्वीपोयं दक्षिणोत्तरात् । पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥ २,३.
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शब्द्राश्च भागशः । इज्यायुधवणिज्याद्यैर्वर्तयन्तो व्यवस्थिताः ॥ २,३.
शतद्रूचन्द्रभागाद्या हिमयत्पादनिर्गताः । वेदस्मृतिमुखाद्याश्च पारीयात्रोद्भवा मुने ॥ २,३.
नर्मदा मुरसाद्याश्च नद्यो विन्ध्याद्रिनिर्गताः । तापीपयोष्णीनिर्विन्ध्या प्रसूखा ऋक्षसंभवाः ॥ २,३.
गोदावरी भीमरथी कृष्णवेण्यादिकास्तथा । सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥ २,३.
कृतमाला ताम्रपर्णिप्रसुखा मलयोद्भवाः । त्रिसामा चर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥ २,३.
ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः । आसां नद्य उपानद्यः सन्त्यन्याश्च सहस्रशः ॥ २,३.
तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः । पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥ २,३.
पुण्ड्राः कलिङ्गा मगधा दक्षिणाद्याश्च सर्वशः । तथापरान्ताः सौराष्ट्राः शूराभीरास्तथार्बुदाः ॥ २,३.