लक्षप्रमाणौ द्रौ मध्यौ दशहीनास्तथापरे । सहस्त्रद्रितयोच्छायास्तावदविस्तारिणश्व ते
भारतं प्रथमं बर्षं ततः किम्पुरुषं स्मृतम् । हरिवर्षं वान्यन्मेरोर्दक्षिणातो द्रिज
रम्यकञ्चोत्तरे वर्षं तस्यैवानु हिरण्मयम् । उत्तराःकुरवश्चैव यथा वै भारतं तथा
नवसाहस्त्रमेकैकमेतेषां द्रिजसत्तम् ! इलावृतञ्च तन्मध्ये सौवर्णो मेरुरुच्छितः
मेरोश्वतुर्दिशं तत्तु नवसाहस्त्रविस्तृतम् । इलावृतं महाभाग ! चत्वारश्वात्र पर्व्वताः
विष्कम्भा रचिता मरोर्योजनायुतमुच्छिताः
पूर्व्वेण मन्दरो नाम दक्षिणो गन्धमादनः । विपुलः पश्विमे पाश्व सुपार्श्वश्वोत्तरे स्मृतः
कदम्बस्तेषु जम्बूश्व पिप्पलो वट एव च । एकादशशाततायामाः पादपा गिरिकेतवः
जम्बूद्रीपस्य सा जम्बूर्नामहेतुर्महामुने । महागजप्रमाणानि जम्ब्वास्तस्याः फलानि वै
पतन्ति भूभृतः पृष्ठे शीर्य्यमाणानि सर्वतः । रसेन तेषां प्रख्याता तत्र जम्बूनदीति वै
सरित् प्रवर्त्तते सा च पीयते तन्निवासिभिः । नि स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः
तत्पानात् स्वच्छमनसां जनानां तत्र जायते । तीरमृत् तदूरसं प्राप्य सुखवायुविशोषिता । जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम्
भद्राश्वं पूर्व्वतो मेरोः केतुमालञ्च पश्चिमे । वर्षे द्र तु मुनिश्वष्ठ! तयोर्म्मध्ये इलावृतम्
वनं चैत्ररथं पूर्व्वे दक्षिणो गन्दमादनम् । वैभ्राजं पश्विमे तदूदुत्तरे नन्दनं स्मृतम्
अरुणोदं महाभद्रमसितोधं समानसम् । सरोस्येतानि चत्वारि देवभोग्यानि सर्व्वदा
शीतान्तश्वक्रमुञ्जश्व कुररी माल्यवांस्तथा । वैकङ्कप्रमुखा मैरोःपूर्व्वतः केशराचलाः । त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्यथा
निषधाद्या दक्षिणातस्तस्य केसरपर्व्वताः । शिखिवासाः सवैदूर्य्यः कपिलो गन्धमादनः । जारुधिप्रमुखास्तदूत् पश्विमे केसराचलाः
मेरोरनन्तराङ्गषुं जठरादिष्ववस्थिताः । शङ्खकूटोऽथ ऋषभो हंसो नागस्तथापरः। कालञ्जराद्याश्व तथा उत्तरे केशराचलाः
चतुर्ददशसहस्त्राणि योजनानां महापुरी । मेरोरुपरि मैत्रेय! ब्रह्मणःप्रथिता दिवि
तस्याः समन्ततश्वाशष्टौ दिशासु विदिशासु च । इन्द्रादिलोकपालानां प्रख्याताः प्रवराःपुरः
विष्णुपादविनिष्कान्ता प्लावयित्वेन्दुमणडलम् । समन्ताद् ब्रह्मणाः पुर्य्यां गङ्गा पतति वै दिवः
सा तत्र पतिता दिक्षु चतुर्धा प्रतिपद्यते । सीता चालकनन्दा च चक्षुर्भदा च वै क्रमात्
पूर्व्वेण शैलात् सीता तु शैलं यात्यन्तरिक्षगा । ततश्व पूर्व्ववर्षेण भद्राश्वेनैति सार्णवम्
तथैवालकनन्दापि दक्षिणोनैत्य भारतम् । प्रयाति सागरं भूत्वा सप्तभेदा महामुने
चक्षुश्च पश्विमगिरीनतीत्य सकलांस्ततः । पश्विमं केतुमालाख्यं वष गत्वैति सागरम्
भद्रा तथोत्तरगिरीनुत्तरांश्व तथा कुरून् । अतीत्योत्तरमम्भोधिं समब्योति महामुने
आनीलनिषधायामौ माल्यवदू-गन्धमादनौ । तयोर्म्मध्यगतो मेरुः कर्णिकाकारसंस्थितः
भारताः केतुमालाश्व भद्राश्वाः कुरवस्तथा । पत्राणि लोकपह्मस्य मर्य्यादा शैलबाह्मतः
जठरो देवकूटश्च मर्य्यादापर्व्वतावुभौ । तौ दक्षिणोत्तरायामावानीलनिषधायतौ
गन्धमादन-कैलासौ पूर्व्वपश्चायतावुभौ । अशीतियोजनायामावर्णावान्तर्व्यवस्थितौ