यानि किंपुरुषादीनि वर्षाण्यष्टौ महामुने। तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्ययत्नतः
विपर्य्ययो न तेष्वस्ति जरामृत्युभयं न च । धर्म्माधर्म्मौ न तेष्वास्तां नोत्तमाधममध्यमाः
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टासु सर्व्वदा । हिमाह्वयं तु वै वर्षं नाभेरासीन्महात्मनः
तस्यर्षभोऽभवत् पुत्रो मेरुदेव्यां महाद्युतिः । ऋषभाद् भरतो जज्ञ ज्येष्ठःपुत्रशतस्य सः
कृत्वा राज्यं स्वधर्म्मेण तथेष्ट्वा विविधान् मखान् । अभिषच्य सुतं ज्येष्ठं भरतं पृथिवीपतिम्
तपसे स महाभागः पुलस्त्यस्याश्रमं ययौ । वानप्रस्थविधानेन तत्रापि कृतनिश्चयः
तपस्तेपे यथान्यायं यदा च स महीपतिः । तपसा कर्शितोऽत्यर्थं कृशो धमनिसन्ततः
नग्नो वीटां मुखे दत्त्वा वीराध्वानं ततो गतः । ततश्च भारतं वर्षमेतल्लोकेषु गीयते
भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् । सुमतिर्भरतस्याभूत् पुत्रः परमधार्म्मिकः
कृत्वा सम्यग् ददौ तस्मै राज्यमिष्टमखः पिता । पुत्रसंक्रमितश्रीस्तु भरतः स महीपतिः
योगाभ्यासरतः प्राणान् शालग्रामेऽत्यजन्मुने । अजायत च विप्रोऽसौ योगिनां प्रवरे कुले
मैत्रय । तस्य चरितं कथयिष्यामि ते पुनः । सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत
परमेष्ठी ततस्तस्मात् प्रतिहारस्तदन्वयः । प्रतिहर्त्तेति विख्यात उत्पन्नस्तस्य चात्मजः
भुवस्तस्मात् तथोद्गीथः प्रस्तारस्तत्सुतो विभुः । पृथुस्ततोऽभवन्नक्तो नक्तस्यापि गयः सुतः
नरो गयस्य तनयस्तत्पुत्रोऽभूद् विराट् ततः । तस्य पुत्रो महावीर्य्यो धीमांस्तस्मादजायत
महान्तस्तत्सुतश्चाभूनूमनस्युस्तस्य चात्मजः । त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत् सुतः
शतजिद्रजसस्तस्य जज्ञ पुत्रशतं मनने । विशगूज्योतिःप्रधानास्ते यैरिमा वर्द्धिताः प्रजाः
तैरिदं भारतं वर्षं नवभेदमलङ्गतम । तेषां वंशप्रसूतैश्च भुक्तेयें भारती पुरा
कृतत्रेतादिसर्गेण युगाख्या ह्म क्सप्ततिः
एष स्वायम्भुवः सर्गो येनेदं पूरितं जगत् । वाराहे तु मुने ! कल्पे पूर्वमन्वान्तराधिपः
मैत्रेय उवाच । कथितो भवता ब्रह्मन् ! सर्गः स्वायम्भुवश्च मे । श्रोतुमिच्छाम्यहं त्वत्तः सकलं मण्डलं भुवः
यावन्तः सागरा द्रीपास्तथा वर्षाणि पर्व्वताः । वनानि सरितः पुर्थ्यौ देवादीनां तथा मने
यत्प्रमाणमिदं सर्व्वं यदाधारं यदात्मकम् । संस्थानमस्य च मुने ! यथावद वक्तुमर्हसि
पराशर उवाच । मैत्रेय श्वूयतामेत्त संक्षेपाद गदतो मम । नास्य वर्ष शतेनापि वक्तु शक्यो हि विस्तरः
जम्बू-प्लक्षह्वयौ द्रीपौ शाल्मलिशचापरो द्रिज । कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः
एते द्रीपाः समुद्रस्तु सप्त सप्तभिरावृताः । लवणेक्षु-सुरा-सर्पिर्दधि-दुग्ध-जलैःसमम्
जम्बूद्रीपः समस्तानाम् एतेषां मध्यसंस्थितः । तस्यापि मैरुर्म्मैत्रेय ! मध्ये कनकपर्व्वतः
प्रविष्टः षोड़शाधस्ताद् द्रात्रिंशन्मूदूर्ध्न विस्तृतः
मूले षोड़शसाहस्त्रो विस्तारस्तस्य सर्व्वशः । भूपद्मस्यास्य शैलेशः कर्णिकाकारसंस्थितः
हिमवान् हेमकूटश्च निषधश्वास्य दक्षिणो । नीलः श्वेतश्व श्वृङ्गी च उत्तरे वर्षपर्व्वताः