पराशार उवाच । कर्द्दमस्यात्मजां कन्यामुपयेमे प्रियव्रतः । सम्राट् कुक्षी च तत्कन्ये दश पुत्रास्तथापरे
महाप्राज्ञा महावीर्य्या विनीता दयिताः पितुः । प्रियव्रतसुताः ख्यातास्तेषां नामानि मे श्वृणु
आग्नीध्रश्चाग्निबाहुश्च वपुष्मान् द्युतिमांस्तथा । मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च
ज्योतिष्मान् दशमस्तेषां सत्यनामा सुतोऽभवत् । प्रियव्रतस्य पुत्रास्तु प्रख्याता बलवीर्य्यतः
मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः । जातिस्मरा महाभाग न राज्याय मनो दधुः
निर्म्मलाः सर्वकालन्तु समस्तार्थेषु वै मुने । चक्रुः क्रिया यथान्यायमफलाकाङ्क्षिणो हि ते
प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम ! विभज्य सप्त द्वीपानि मैत्रेय सुमहात्मनाम्
जम्बूद्वीपं महाभाग सोऽग्नीध्राय ददौ पिता । मेधातिथेस्तथा प्रादात् प्लक्षद्वीपमथापरम्
शाल्मले च वपुष्मन्तं नरेन्द्रमभिषिक्तवान् । ज्योतिष्मन्तं कुशद्रीपे राजानं कृतवान् प्रभुः
द्युतिमन्तं च राजानं क्रौञ्चद्रीपे समादिशत् । शाकद्वीपेश्वरञ्चापि भव्यञ्चक्रे च स प्रभुः
सवनं पुष्करद्वीपे राजानं समकारयत
जम्बूद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम । तस्य पुत्रा बभुवुस्ते प्रजापतिसमा नव
नाभिः किम्पुरुषश्वे वै हरिवर्ष इलावृतः । रम्यो हिरण्वान् षष्ठश्च कुरुर्भद्राश्व एव च
केतुमालस्तथैवान्यः साधुचेष्टो नृपोऽभवत् । जम्बूद्रीपविभागांश्च तषां विप्र निशामय
पित्रा दत्तं हिमाह्वन्तु वर्षं नाभेस्तु दक्षिणम् । हेमकूटं तथा वर्षं ददौ किम्पुरुषाय सः
तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान । इलावृताय प्रददौ मैरुर्यत्र तु मध्यगः
नीलाचलाश्वितं वर्षं रम्याय प्रददौ पिता । श्वेतं तदुत्तरं वर्षं पित्रा दत्तं हिरण्वते
यदुत्तरं श्वृङ्गवतो वर्षं तत् कुरवे ददौ । मेरोः पूर्व्वेणा यद् वर्षं भद्राश्वाय प्रदत्तवान्
गन्धमादनवर्षन्तु केतुमालाय दत्तवान । इत्येतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः
वर्षेष्वेतेषु तान् पुत्रानभिषितच्य स भूमिपः । शालग्रामं महापुण्यं मैत्रेय तपसे ययौ
यानि किंपुरुषादीनि वर्षाण्यष्टौ महामुने। तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्ययत्नतः
विपर्य्ययो न तेष्वस्ति जरामृत्युभयं न च । धर्म्माधर्म्मौ न तेष्वास्तां नोत्तमाधममध्यमाः
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टासु सर्व्वदा । हिमाह्वयं तु वै वर्षं नाभेरासीन्महात्मनः
तस्यर्षभोऽभवत् पुत्रो मेरुदेव्यां महाद्युतिः । ऋषभाद् भरतो जज्ञ ज्येष्ठःपुत्रशतस्य सः
कृत्वा राज्यं स्वधर्म्मेण तथेष्ट्वा विविधान् मखान् । अभिषच्य सुतं ज्येष्ठं भरतं पृथिवीपतिम्
तपसे स महाभागः पुलस्त्यस्याश्रमं ययौ । वानप्रस्थविधानेन तत्रापि कृतनिश्चयः
तपस्तेपे यथान्यायं यदा च स महीपतिः । तपसा कर्शितोऽत्यर्थं कृशो धमनिसन्ततः
नग्नो वीटां मुखे दत्त्वा वीराध्वानं ततो गतः । ततश्च भारतं वर्षमेतल्लोकेषु गीयते
भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् । सुमतिर्भरतस्याभूत् पुत्रः परमधार्म्मिकः
कृत्वा सम्यग् ददौ तस्मै राज्यमिष्टमखः पिता । पुत्रसंक्रमितश्रीस्तु भरतः स महीपतिः