क्षराक्षरमयो विष्णुर्बिभर्त्यखिलमीश्वरः । पुरुषाव्याकृतमयं भूषणास्त्रस्वरूपवत् ॥ १,२२.
श्रीमैत्रेय उवाच भूषणास्त्रस्वरूपस्थं यच्चैतदखिलं जगत् । बिभर्ति भगवान्विष्णुस्तन्ममाख्यातुमर्हसि ॥ १,२२.
श्रीपराशर उवाच नमस्कृत्वाप्रमेयाय विष्णवे प्रभविष्णवे । कथयामि यथाख्यातं वसिष्ठेन ममा भवत् ॥ १,२२.
आत्मानमस्य जगतो निर्लेपमगुणामलम् । बिभर्ति कौस्तुभमणिस्वरूपं भगवान्हरिः ॥ १,२२.
श्रीवत्ससंस्थानधरमनन्तेन समाश्रितम् । प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे ॥ १,२२.
भूतादिमिन्द्रियादिं च द्विधाहङ्कारमीश्वरः । बिभर्ति शंखरूपेण शार्ङ्गरूपेण च स्थितम् ॥ १,२२.
चलत्स्वरूपमत्यन्तं जवेनान्तारितानिलम् । चक्रस्वरूपं च मनो धत्ते विष्णुकरे स्थितम् ॥ १,२२.
पञ्चरूपा तु या माला वैजयन्ती गदाभृतः । सा भूतहेतुसंघाता भूतमाला च वै द्विज ॥ १,२२.
यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै । शररूपाण्यशेषाणि तानि धत्ते जनार्दनः ॥ १,२२.
बिभर्ति यच्चासिरत्नमच्युतोत्यन्तनिर्मलम् । विद्यामय तु तज्ज्ञानमविद्याकोशसंस्थितम् ॥ १,२२.
इत्थं पुमान्प्रधानं च बुद्ध्यहङ्कारमेव च । भूतानि च हृषीकेशे मनः सर्वेन्द्रियाणि च । विद्याविद्ये च मैत्रेय सर्वमेतत्समाश्रितम् ॥ १,२२.
अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितः । बिभार्ति मायारूपोसौ श्रेयसे प्राणिनां हरिः ॥ १,२२.
सविकारं प्रधानं च पुमांश्चैवाखिलं जगत् । बिभर्ति पुण्डहीकाक्षस्तदेवं परमेश्वरः ॥ १,२२.
या विद्या या तथाविद्या यत्सद्यच्चासदव्ययम् । तत्सर्वं सर्वभूतेशे मैत्रेय मधुसूदने ॥ १,२२.
कलाकाष्ठानिमेषादिदिनर्त्वयनहायनैः । कालस्वरूपो भगवानपापो हरिरव्ययः ॥ १,२२.
भूर्लोकोथ भुवर्लोकः स्वर्लोको मुनिसत्तम । महर्जनस्तपः सत्यं सप्त लोका इमे विभुः ॥ १,२२.
लोकात्ममूर्तिः सर्वेषां पूर्वेषामपि पूर्वजः । आधारः सर्वविद्यानां स्वयमेव हरिः स्थितः ॥ १,२२.
देवमानुषपश्वादिश्वरूपैर्बहुभिः स्थितः । ततः सर्वेश्वरोऽनन्तो भूतमूर्तिरमूर्तिमान् ॥ १,२२.
ऋचो यजूंषि सामानि तथैवाथर्वाणानि वै । इतिहासोपवेदाश्च वेदान्तेषु तथोक्तयः ॥ १,२२.
वेदाङ्गानि समस्तानि मन्वादिगदितानि च । शास्त्राण्यशेषाण्याख्यानान्यनुवाकाश्च ये क्वचित् ॥ १,२२.
काव्यालापाश्च ये केचिद्रीतकान्यखिलानि च । शब्दमूर्तिधरस्यैतद्वपुर्विष्णोर्महात्मनः ॥ १,२२.
यानि मूर्तान्यमूर्तानि यान्यत्रान्यत्र वा क्वचित् । सन्ति वै वस्तुजातानि तानि सर्वाणि तद्वपुः ॥ १,२२.
अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् । ईदृङ्मनो यस्य न तस्यट भूयो भवोद्भावा द्वन्द्वगदा भवन्ति ॥ १,२२.
इत्यैष तेंशः प्रथमः पुराणस्यास्य वै द्विज । यथावत्कथितो यस्मिन्धृते पापैः प्रमुच्यते ॥ १,२२.
कार्त्तिक्यां पुष्करस्नाने द्वादशाब्देन यत्फलम् । तदस्य श्रवणात्सव मैत्रेयाप्नोति मानवः ॥ १,२२.
देवर्षिपितृगन्धर्वयक्षादिनां च सम्भवम् । भवन्ति शृण्वतः पुंसो देवाद्य वरदा मुने ॥ १,२२.
मैत्रेय उवाच । भगवन् सम्यागाख्यातं ममैतदखिलं त्वया । जगतः सर्गसम्बन्घि यत् पृष्टोऽसि गुरो मया
योऽयमंशो जगत्सृष्टिसम्बद्धो गदितस्त्वया । तत्राहं श्रोतुमिच्छामि भूयोऽपि मुनिसत्तम
प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ । तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः ।.
प्रियव्रतस्य नैवोक्ता भवता द्विज सन्ततिः । तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि