योगिनो मुक्तिकामस्य प्राणायामादिसाधनम् । साध्यं च परमं ब्रह्म पुनर्नावर्तते यतः ॥ १,२२.
साधनालम्बनं ज्ञानं मुक्तये योगिनां हि यत् । स भेदः प्रथमस्तस्य ब्रह्मभूतस्य वै मुने ॥ १,२२.
युञ्जतः क्लेशमुक्त्यर्थं साध्यं यद्ब्रह्म योगिनः । तदालम्बनविज्ञानं द्वितीयोऽंशो महामुने ॥ १,२२.
उभयोस्त्वविभागेन साध्यसाधनयोर्हि यत् । विज्ञानमद्वैतमयं तद्भागोन्यो मयोदितः ॥ १,२२.
ज्ञानत्रयस्य वै तस्य विशेषो यो महामुने । तन्निराकरणद्वारा दर्शितात्मस्वरूपवत् ॥ १,२२.
निर्व्यापारमनाख्येयं व्याप्तिमात्रमनूपमम् । आत्मसम्बोधविषयं सत्तामात्रमलक्षणम् ॥ १,२२.
प्रशान्तमभयं शुद्धं दुर्विभाव्यमसंश्रयम् । विष्णोर्ज्ञानमयस्योक्तं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ १,२२.
तत्र ज्ञाननिरोधेन योगिनो यान्ति ये लयम् । संसारकर्षणोप्तौ ते यान्ति निर्बीजतां द्विजा ॥ १,२२.
एवंप्रकारममलं नित्यं व्यापकमक्षयम् । समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥ १,२२.
तद्ब्रह्म परमं योगी यतो नावर्तते पुनः । श्रयत्यपुण्योपरमे क्षीणक्लेशेऽतिनिर्मले ॥ १,२२.
द्वे रूपे ब्रह्मणस्तस्य मूर्तं चामूर्तमेव च । क्षराक्षरास्वरूपे ते सर्वभूतेष्ववस्थिते ॥ १,२२.
अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् । एकदेशस्थितस्याग्नेर्ज्योत्स्त्रा विस्तारिणि यथा । परस्य ब्रह्मणः शक्तिस्तथोदमखिलं जगत् ॥ १,२२.
तत्राप्यासन्नदूरत्वाद्बहुत्वस्वल्पतामयः । ज्योत्स्नाभेदोस्ति तच्छक्तेस्तद्वन्मैत्रेय विद्यते ॥ १,२२.
ब्रह्मविष्णुशिवा ब्रह्मन्प्रधाना ब्रह्मशक्तयः । ततश्च देवा मैत्रेय न्यूना दक्षादयस्ततः ॥ १,२२.
ततो मनुष्याः पशवौ मृगपक्षिसरीसृपाः । न्यूनान्यूनतराश्चैव वृक्षगुल्मादयस्तथा ॥ १,२२.
तदेतदक्षरं नित्यं जगन्मुनिवराखितम् । आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥ १,२२.
सर्वशक्ति मयो विष्णुः स्वरूपं ब्रह्मणः परम् । मूर्तं यद्योगिभिः पूर्वं योगारम्भेषु चिन्त्यते ॥ १,२२.
सालम्बनो महायोगः सबीजो यत्रसंस्थितः । मनस्यव्याहते सम्यग्युञ्जतां जायते मुने ॥ १,२२.
स परः परशक्तीनां ब्रह्मणः समनन्तरम् । मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥ १,२२.
यत्र सर्वमिदं प्रोतमोतं चैवाखितं जगत् । ततो जगज्जगत्यस्मिन्स जगच्चखिलं मुने ॥ १,२२.
क्षराक्षरमयो विष्णुर्बिभर्त्यखिलमीश्वरः । पुरुषाव्याकृतमयं भूषणास्त्रस्वरूपवत् ॥ १,२२.
श्रीमैत्रेय उवाच भूषणास्त्रस्वरूपस्थं यच्चैतदखिलं जगत् । बिभर्ति भगवान्विष्णुस्तन्ममाख्यातुमर्हसि ॥ १,२२.
श्रीपराशर उवाच नमस्कृत्वाप्रमेयाय विष्णवे प्रभविष्णवे । कथयामि यथाख्यातं वसिष्ठेन ममा भवत् ॥ १,२२.
आत्मानमस्य जगतो निर्लेपमगुणामलम् । बिभर्ति कौस्तुभमणिस्वरूपं भगवान्हरिः ॥ १,२२.
श्रीवत्ससंस्थानधरमनन्तेन समाश्रितम् । प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे ॥ १,२२.
भूतादिमिन्द्रियादिं च द्विधाहङ्कारमीश्वरः । बिभर्ति शंखरूपेण शार्ङ्गरूपेण च स्थितम् ॥ १,२२.
चलत्स्वरूपमत्यन्तं जवेनान्तारितानिलम् । चक्रस्वरूपं च मनो धत्ते विष्णुकरे स्थितम् ॥ १,२२.
पञ्चरूपा तु या माला वैजयन्ती गदाभृतः । सा भूतहेतुसंघाता भूतमाला च वै द्विज ॥ १,२२.
यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै । शररूपाण्यशेषाणि तानि धत्ते जनार्दनः ॥ १,२२.
बिभर्ति यच्चासिरत्नमच्युतोत्यन्तनिर्मलम् । विद्यामय तु तज्ज्ञानमविद्याकोशसंस्थितम् ॥ १,२२.