तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । यथाप्रदेशमद्यापि धर्मतः परिपाल्यते ॥ १,२२.
एते सर्वे प्रवृत्तस्य स्थितौ विष्णोर्महात्मनः । विभूतिभूता राजानो ये चान्ये मुनिसत्तम ॥ १,२२.
ये भविष्यन्ति ये भूताः सर्वे भूतेश्वरा द्विज । ते सर्वे सर्वभूतस्य विष्णोरंशा द्विजोत्तम ॥ १,२२.
ये तु देवाधिपतयो ये च दैत्याधिपास्तथा । दानवानां च ये नाथा ये नाथाः पिशिताशिनाम् ॥ १,२२.
पशूनां ये च पतयः पतयो ये च पक्षिणाम् । मनुष्याणां च सर्पाणां नागानामधिपाश्च ये ॥ १,२२.
वृक्षाणां पर्वतानां च ग्रहाणां चापि येऽधिपाः । अतीता वर्तमानाश्च ये भविष्यन्ति चापरे । ते सर्वे सर्वभूतस्य विष्णोरंशसमुद्भवाः ॥ १,२२.
न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् । स्थितं स्थितौ महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥ १,२२.
सृजत्येष जगत्सृष्टौ स्थितौ पाति सनातनः । हन्ति चैवान्तकत्वेन रजःसत्त्वादिसंश्रयः ॥ १,२२.
चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ । प्रलयं च करोत्यन्ते चतुर्भेदो जनार्दनः ॥ १,२२.
एकेनांशेन ब्रह्मसौ भवत्यव्यक्तमूर्तिमान् । मरीचिमिश्राः पतयः प्रजानाञ्चान्यभागशः ॥ १,२२.
कालस्तृतीयस्तस्यांशः सर्वभूतानि चापरः । इत्थं चतुर्धा संसृष्टौ वर्ततेसौ रजोगुणः ॥ १,२२.
एकांशेनास्थितो विष्णुः करोति प्रतिपालनम् । मन्वादिरूपश्चान्येन कालरूपोऽपरोण च ॥ १,२२.
सर्वभूतेषु चान्येन संश्थितः कुरुते स्थितिम् । सत्त्वं गुणं समाश्रित्य जगतः पुरुषोत्तमः ॥ १,२२.
आश्रित्य तमसो वृत्तिमन्तकाले तथा पुनः । रुद्रस्वरूपो भगवानेकांशेन भवत्यजः ॥ १,२२.
अग्न्यन्तकादिरूपेण भागेनान्येन वर्तते । कालस्वरूपो भागो यःसर्वभूतानि चापरः ॥ १,२२.
विनाशं कुर्वतस्तस्य चतुर्धैवं महात्मनः । विभागकल्पना ब्रह्मन् कथ्यते सार्वकालिकी ॥ १,२२.
ब्रह्म दक्षादयः कालस्तथै वाखिलजन्तवः । विभूतयो हरेरेता जगतः सृष्टिहेतवः ॥ १,२२.
विष्णुर्मन्वादयः कालः सर्वभूतानि च द्विज । स्थितेर्निमित्तभूतस्य विष्णोरेता विभूतयः ॥ १,२२.
रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः । चतुर्धा प्रलायायैता जनार्दनविभूतयः ॥ १,२२.
जगदादौ तथा मध्ये सृष्टिराप्रलया द्विज । धात्रा मरीचिमिश्रैश्च क्रियते जन्तुभिस्तथा ॥ १,२२.
ब्रह्म सृजत्यादिकाले मरीचिप्रमुखास्ततः । उत्पादयन्त्यपत्यानि जन्तवश्च प्रतिक्षणम् ॥ १,२२.
कालेन न विना ब्रह्म सृष्टिनिष्पादको द्विज । न प्रजापतयः सर्वे न चैवाखिलजन्तवः ॥ १,२२.
एवमेव विभागोयं स्तितावप्युपदिश्यति । चतुर्दा तस्य देवस्य मैत्रेय प्रलये तथा ॥ १,२२.
यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य सम्भूतो तत्सर्वं वै हरेस्तनुः ॥ १,२२.
हन्ति यावच्च यत्किञ्चित्सत्त्वं स्थावरजङ्गमम् । जनार्दनस्य तद्रौद्रं मैत्रेयान्तकरं वपुः ॥ १,२२.
एवमेष जगत्स्त्रष्टा जगत्पाता तथा जगत् । जगद्भक्षयिता देवः समस्तस्य जनार्दनः ॥ १,२२.
सृष्टिस्थित्यन्तकालेषु त्रिधैवं संप्रवर्तते । गुणप्रवृत्या परमं पदं तस्यागुणं महत् ॥ १,२२.
तच्च ज्ञानमयं व्यापि स्वसंवेद्यमनौपमम् । चतुष्प्रकारं तदपि स्वरूपं परमात्मनः ॥ १,२२.
श्रीमैत्रेय उवाच चतुःप्रकारतां तस्य ब्रह्मभूतस्य हे मुने । ममाचक्ष्व यथान्यायं यदुक्तं परमं पदम् ॥ १,२२.
श्रीपराशर उवाच मैत्रेय कारणं प्रोक्तं साधनं सर्ववस्तुषु । साध्यं च वस्त्वभिमतं यत्साधयितुमात्मनः ॥ १,२२.