सुश्रूषु स्तामथागच्छदू विनयादमराधिपः । तस्याश्चैवान्तरं प्रेप्सुरतिष्ठते पाकशासनः
ऊने वर्ष शते चास्या ददर्शान्तरमात्मना । अकृत्वा पादयोः शौचं दितिः शयनमाविशत्
नि द्राञ्चाहारायामास तस्याः कुक्षिं प्रविश्य सः । वज्रपाणिर्म्महागर्भं चिच्छदाथ स सप्तधा
स पीड़यमानो वज्रेणा प्ररुरोदातिदारुणम् । मा रोदीरिति तं शक्रः पुनः पूनरभाषत
सोऽभवत् सप्तधा गर्भस्तमिन्द्रः कुपितः पुनः । एकैक सप्तधा चक्र वज्रणारिविदारिणा
मरुतो नाम देवास्ते बभूवुरतिवेगिनः । यदुक्तं वै मघवता तेनैव मरुतोऽभवन् । देवा एकोनपञ्चासत् सहाया वज्रपाणिनः
श्रीपराशर उवाच यदाभिषिक्तः स पृथुः पूर्वं राज्ये महर्षिभिः । ततः क्रमेण राज्यानि ददौ लोकपितामहः ॥ १,२२.
नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः । सोमं राज्ये दधद्ब्रह्मा यज्ञानां तपसामपि ॥ १,२२.
राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा । आदित्यानां पतिं विष्णुं वसूनामथ पावकम् ॥ १,२२.
प्रजापतीनां दक्षं तु वासवं मरुतामपि । दैत्यानां दानवानां च प्रह्लादमधिपं ददौ ॥ १,२२.
पितॄणां धर्मराजानं यमं राज्येऽभ्यषेचयत् । ऐरावतं गर्जेद्राणामशेषाणां पतिं ददौ ॥ १,२२.
पतत्रिणां तु गरुडं देवानामपि वासवम् । उच्चैःश्रवसमश्वानां वृषभं तु गवामपि ॥ १,२२.
मृगाणां चैव सर्वेषां राज्ये सिंहं ददौ प्रभुः । शेषं तु दन्दशूकानामकरोत्पतिमव्ययः ॥ १,२२.
हिमालयं स्थावराणां मुनीनां कपिलं मुनिम् । नखिनां दंष्ट्रिणां चैव मृगाणां व्याघ्रमीश्वरम् ॥ १,२२.
वनस्पतीनां राजानां प्लक्षमैवाभ्यषेचयत् । एवमेवान्यजातीनां प्राधान्येनाकरोत्प्रभून् ॥ १,२२.
एवं विभज्य राज्यानि दिशां पालाननन्तरम् । प्रजापतिपतिर्ब्रह्मा स्थापयामास सर्वतः ॥ १,२२.
पूर्वस्यां दिशि राजानं वैराजस्य प्रजापतेः । दिशापालं सुधन्वानं सुतं वै सोऽभ्यषेचयत् ॥ १,२२.
दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः । पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ॥ १,२२.
पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् । केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ॥ १,२२.
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः । उदीच्यां दिशि दुर्धर्षं राजानमभ्यषेचयत् ॥ १,२२.
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । यथाप्रदेशमद्यापि धर्मतः परिपाल्यते ॥ १,२२.
एते सर्वे प्रवृत्तस्य स्थितौ विष्णोर्महात्मनः । विभूतिभूता राजानो ये चान्ये मुनिसत्तम ॥ १,२२.
ये भविष्यन्ति ये भूताः सर्वे भूतेश्वरा द्विज । ते सर्वे सर्वभूतस्य विष्णोरंशा द्विजोत्तम ॥ १,२२.
ये तु देवाधिपतयो ये च दैत्याधिपास्तथा । दानवानां च ये नाथा ये नाथाः पिशिताशिनाम् ॥ १,२२.
पशूनां ये च पतयः पतयो ये च पक्षिणाम् । मनुष्याणां च सर्पाणां नागानामधिपाश्च ये ॥ १,२२.
वृक्षाणां पर्वतानां च ग्रहाणां चापि येऽधिपाः । अतीता वर्तमानाश्च ये भविष्यन्ति चापरे । ते सर्वे सर्वभूतस्य विष्णोरंशसमुद्भवाः ॥ १,२२.
न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् । स्थितं स्थितौ महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥ १,२२.
सृजत्येष जगत्सृष्टौ स्थितौ पाति सनातनः । हन्ति चैवान्तकत्वेन रजःसत्त्वादिसंश्रयः ॥ १,२२.
चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ । प्रलयं च करोत्यन्ते चतुर्भेदो जनार्दनः ॥ १,२२.
एकेनांशेन ब्रह्मसौ भवत्यव्यक्तमूर्तिमान् । मरीचिमिश्राः पतयः प्रजानाञ्चान्यभागशः ॥ १,२२.