सिसृक्षुरन्यदेहस्थः प्रीतिमाप ततः सुराः । सत्त्वोद्रिक्ताः समुद्भूता मुखतो ब्रह्मणो द्विजः
त्यक्ता सापि तनुस्तेन सत्त्वप्रायमभूद्दिनम् । ततो हि बलिनो रात्रावसुरा देवता दिवा
सत्त्वमात्रात्मिकामेव ततोन्यां जगृहे तनुम् । पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे
उत्ससर्ज ततस्तां तु पितॄन्सृष्ट्वापि स प्रभुः । सा चोत्सृष्टाभवत्संध्या दिननक्तान्तरस्थिता
रजोमात्रात्मिकामन्यां जगृहे स तनुं ततः । रजोमात्रोत्कटा जाता मनुष्या द्विजसत्तम
तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः । ज्योत्स्ना समभवत्सापि प्राक्सन्ध्या याऽभिधीयते
ज्योत्स्नागमे तु बलिनो मनुष्याः पितरस्तथा । मैत्रेय संध्यासमये तस्मादेते भवन्ति वै
ज्योत्स्ना रात्र्यहनी संध्या चत्वार्येतानि वै प्रभोः । ब्रह्मणस्तु शरीराणि त्रिगुणोपाश्रयाणि तु
रजोमात्रात्मिकामेव ततोन्यां जगृहे तनुम् । ततः क्षुद्ब्रह्मणो जाता जज्ञे कामस्तया ततः
क्षुत्क्षामानन्धकारेथ सोसृजद्भगवांस्ततः । विरूपाः श्मश्रुला जातास्तेभ्यधावंस्ततः प्रभुम्
मैवं भो रक्ष्यतामेष यैरुक्तं राक्षसास्तु ते । ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु जक्षणात्
अप्रियेण तु तान्दृष्ट्वा केशाः शीर्यन्तवेधसः । हीनाश्च शिरसो भूयः समारोहन्त तच्छिरः
सर्पणात्तेऽभवन् सर्पा हीनत्वादहयः स्मृताः । ततः क्रुद्धो जगत्स्रष्टा क्रोधात्मानो विनिर्ममे । वर्णेन कपिशेनोग्रभूतास्ते पिशिताशनाः
ध्यायतोंगात्समुत्पन्ना गन्धर्वास्तस्य तत्क्षणात् । पिबन्तो जज्ञिरे वाचं गन्धर्वास्तेन ते द्विज
एतानि सृष्ट्वा भगवान्ब्रह्म तच्छक्तिचोदितः । ततः स्वच्छन्दतोन्यानि वयांसि वयसोऽसृजत्
अवयो वक्षसश्चक्रे मुखतोजाः स सृष्टवान् । सृष्टवानुदराद्गाश्च पार्श्वभ्यां च प्रजापतिः
पद्भ्यां चाश्वान्समातङ्गान्रासभान्गवयान्मृगान्। उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्याश्च जातयः
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे । त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ द्विजोत्तम । सृष्ट्वापश्चौषधीः सम्यग्युयोजस तदाध्वरे
गौरजः पुरुषो मेषश्चाश्वाश्वतरगर्दभाः । एतान्ग्राम्यान्पशूनाहुरारण्यांश्च निबोध मे
श्वापदा द्विखुरा हस्ती वानराः पक्षिपंचमाः । औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः
गायत्रं च ऋचश्चैव त्रिवृत्सोमं रथन्तरम् । अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात्
यजूंषि त्रैष्टुभं छन्दः स्तोमं पंचदशं तथा । बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात्
सामानि जगतीछन्दः स्तोमं सप्तदशं तथा । वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात्
एकविंशमथर्वाणमाप्तोर्यामाणमेव च । अनुष्टुभं च वैराजमुत्तरादसृजन्मुखात्
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे । देवासुरपितॄन् सृष्ट्वा मनुष्यांश्च प्रजापतिः
ततः पुनः ससर्जादौ संकल्पस्य पितामहः । यक्षान् पिशाचान्गन्धर्वान् तथैवाप्सरसां गणान्
नरकिन्नररक्षांसि वयः पशुमृगोरगान् । अव्ययं च व्ययं चैव यदिदं स्थाणुजंगमम्
तत्ससर्ज तदा ब्रह्म भगवानादिकृत्प्रभुः । तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनःपुनः
हिंस्राहिंस्रे मृदुक्रूरे धर्मधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते
इन्द्रि यार्थेषु भूतेषु शरीरेषु च स प्रभुः । नानात्वं विनियोगं च धातैवं व्यसृजत्स्वयम्