एकचक्रो महाबाहुस्तारकश्च महाबलः । स्वर्भानुर्वृ षपर्व्वा च पुलोमा च महावलः
एते दनोः सुताः क्याता विप्रचित्तिश्च वीर्य्यवान । स्वर्भानोस्तु प्रभा कन्या शर्म्मिष्ठा वार्षपर्व्वाणी
उपदानवी-हयशिराः प्रख्याता वरकन्यकाः । वैश्वानरसुते चोभे पुलोमा कालका तथा
अबे सुते महाभागे मरीचेस्तु परिग्रहः । ताभ्यां पुत्रसहस्त्राणि षष्टिर्दानवसत्तमाः
पौलोमा कालकेयाश्च मीरीचतनयाः स्मृताः । ततोऽपरो महावीर्य्या दारुणास्त्वतिनिर्घृणाः
सिंहिकायामथोत्पन्ना विप्रतचित्तेः सुतास्तथा । व्यंशः शल्यश्च बलवान् नभश्चैव महाबलः
वातापिर्नमुचिश्चैव इल्वलः खसृमस्तथा । अञ्झको नरकश्चैव कालनाभस्तथवै च
स्वर्भानुश्च महावीर्य्यश्चक्रयोधी महाबलः । एते ते दानवाः श्वे ष्ठो दनुवंशविवर्द्धनाः
एतेषां पुत्रपौत्राश्च शतशोऽथ सहस्त्रशः । प्रह्लादस्य तु दैत्यस्य निवातकवचाः कुले
समुत्पन्नाः सुमहता तपसा भावितात्मनः । ट् सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्त्तिताः
शुकी श्येनी च भीसी च सुग्रीवी शुचिगृध्रिका । शुकी शुकानजनयदुलूकी प्रत्युलूककान्
श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्रयपि । शुच्यौदकान् पक्षिगणान् सुग्रीवी तु व्यजायत
अश्वानुष्ट्रान् गर्द्द भांश्च ताम्रावंशः प्रकीर्त्तितः । विनतायास्तु पुत्रौ द्रौ विख्यातौ गरुड़ारुणौ
सुपर्णः पततां श्वष्ठो दारुणः पन्नागाशनः । सुरसायां सहस्त्रन्तु सर्पाणाममितौजसाम्
अनेकखिरसां ब्रह्मन् शेचराणां महात्मनाम् । काद्रवेयास्तु बलिनः सहस्त्रममितौजसः
सुपर्णावशागा ब्रह्मन् जज्ञिरे नैकमस्तकाः । तेषां प्रधानभूतास्तु शेषवासुकितक्षकाः
शङ्खः श्वेतो महापह्मः कम्बलाख्वतरौ तथा । एलापत्रस्तथा नागः कर्कोटक-दनञ्जयौ
एते चान्ये च बहवो दन्दशूका विषोल्वणाः । गणां क्रोधवशं विद्धि तस्याः सर्व्वो च दंष्टिणः
स्थलजाः पक्षिणोऽब्जाश्च दारुणाः पिशिताशनाः । क्रोधा तु जनयामास पिशाचांश्यच महाबलान्
गास्तु वै जनयामास सुरभिर्म्महिषांस्तथा । इरा वृक्ष-लता-वल्लीस्तृणजातीश्च सर्व्वशः । खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा
अरिष्टा तु महासत्त्वान् गन्धर्व्वान् समजीजनत् । एते कश्यपदायादाः कीर्त्तिताः स्थाणु-जङ्गमाः
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्त्रशः । एष मन्वन्तरे मर्गो ब्रह्मन् स्वारोचिषे स्मृतः
वैवस्वते च महति वारुणे वितते क्रतौ । जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते
पूर्व्वं यत्र तु सप्तर्षीनुत्पन्नान् सप्त मानसान् । पुत्रत्वे कल्पयामास स्वयमेव पितामहः
गन्धर्व्वभोगिदेवानां दानवानाञ्च सत्तम । दितिर्व्विनष्टपुत्रा वै तोषयामास कश्यपम्
तया चाराधितः सम्यक् कश्यपस्तपतां वरः । वरेण च्छन्दयामास सा च वव्र ततो वरम्
पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् । स च तस्मै वरं प्रादादू भार्य्यायै मुनिसत्तम
दत्ता च वरमत्युय्र कश्यपस्तामुवाच ह । शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम्
समाहितातिप्रयता शुचिनी धारयिष्यसि । इत्येवमुत्तवा तां देवीं सङ्गतः कश्यपो मुनिः
दधार मा च तं गर्भं सम्यक् शौचसमन्विता । गर्भमात्मवधार्थाय ज्ञात्वा तं मघवानपि