योगप्रभावात् प्रह्लादि जाते विष्णुमयेऽसुरे । चलत्युरगबन्धैस्तैर्म्मैत्रय त्रटितं क्षणात्
भ्रान्तग्राहगणः सोर्म्मर्ययौ क्षोभ महार्णवः । चचाल च मही सर्वा सशौलवनकानना
स च तं शेलमम्पातं दैत्यैर्न्यस्तमथोपरि । प्रक्षिप्य तस्मात् सलिलान्निश्चक्राम महामतिः
दृष्ट्वा च स जगदू भूयो गगनाद्यु पलक्षणम् । प्रह्लदोऽस्मीति सस्मार पुनरात्मानमात्मना
तुष्टाव च पुनर्धीमाननादिं पुरुषोत्तमम् । एकाग्रमतिरव्यग्रो यतवाक्कायमानसः
ऊँ नमः परमार्थार्थ स्थूलसूक्ष्मक्षराक्षर । व्यक्ताव्यक्त कलातीत सकलेश निरंञ्जन
गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थिर । मूर्त्तामूर्त्त महामूर्त्ते सूक्ष्ममूर्त्ते स्फुटास्फुट
करालसौम्यरूपात्मन् विद्याविद्यालयाच्युत । सदसद्रूप सद्भाव सदसद्भावभावन
नित्यानित्यप्रपञ्जात्मन् निष्प्रपञ्चामालश्रित । एकानिक नमस्तुभ्यं वासुदेवादिकारण
यः स्थूलसूक्ष्मः प्रकटः प्रकाशो यःसर्व्भूतो न च सर्व्वभूतः । विश्वं यतश्चैतदविश्वहेतो र्नमोऽस्तु तस्मै पुरुषोत्तमाय
तस्य तच्चेतसो देवः स्तुतिमित्थं प्रकूर्वतः । आविर्बभूव भगवान् पीताम्बरधरो हरिः
ससम्भ्रमस्तमालोक्य समुत्थायाकुलाक्षरम् । नमोऽस्तु विष्णवेत्यतद व्याजहारासकृद द्रिज
देव प्रपन्नार्त्तिहर प्रसादं कुरु केशव । अवलोकनदानेन भूयो मां पावयाच्यत
कुर्व्वतस्ते प्रसन्नोऽहं भक्तिमव्यभिचारिणीम् । यथाभिलषितो मत्तः प्रह्लाद व्रियतां वरः
नाथ योनिसहस्त्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि
या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे ह्टदयान्माऽपसर्पतु
मयि भक्तिस्तवास्त्येव भूयोऽप्येवं भविष्यति । वरस्तु मत्तः प्रह्लाद व्रियतां यस्तवेप्सितः
मयि द्र षानुबन्धोऽभूत् संस्तूतावुद्यते तव । मतूपितुस्तत्कृतं पापं देव तस्य प्रणश्यतु
शस्त्राणि पातितान्यङ्ग क्षिप्तो यज्वाग्रिसंहतौ । दंशितश्चोरगैर्दृत्तं यद्रिषं मम भोजने
बद्ध्वा समुद्र यत् क्षिप्तो यज्वितोऽस्मि शलोच्चयाः । अन्यानि चाप्यसाधूनि यानि यानि कृतानि मे
त्वयि भक्तिमतो द्रेषादघं तत्सम्भवञ्च यत् । त्वतूप्रसादात् प्रभो सद्यस्तेन मुच्येत मेपिता
प्रह्लाद सर्व्वमेतत् ते मत्प्रसादादू भविष्यति । अन्यञ्च ते वरं दह्मि व्रियतामसुरात्मज
कृतकृत्योऽस्मि भगवन् वरेणानेन यत् त्वयि । भवित्री त्वत्प्रसादेन भक्तिरव्यभिचारिणी
धर्म्मर्थकामैः किं तस्य मुक्तिस्तस्य करो स्थिता । समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि
यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम । तथा त्वं मत्प्रसादेन निव्वाणा परमाप्स्यसि
इत्युक्त्वान्तर्दृ धे विष्णुस्तस्य मैत्रेय ! पश्यतः । स चापि पुनरागम्य ववन्दे चरणौ पितुः
तं पिता मूद्ध न्युपाघ्राय परिष्वज्य च पीडिताम् । जीवसीत्याह वत्सेति बाष्पार्द्र नयनो द्रिज
प्रीतिमांस्वाभवत् तस्मिन्ननुतापी महासुरः । गुरुपित्रोश्वकारैवं शुश्वूषां सोऽपि धर्म्मवित्
पितर्य्युपरतिं नीते नरसिंहस्वरूपिणा । विष्णुना सोऽपिदैत्यानां मैत्रयाभूत् परिस्ततः
ततो राज्यद्यु तिं प्राप्य कर्म्मशुद्धिकरीं द्रिज । पुत्रपौत्रांश्व सुबहुनवाप्यैश्वय्येमेव च